SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३१० योर ||४|१|४२ || ति घस्य गत्वे, गहोर्जः । जघान । हनो द्विखे, गमहने ||४ |२| ४४ ॥ त्युपान्त्यलुकि । अडे हिनो हो घः पूर्वात् ||४|१|३४ ॥ हिहनोडेंवर्जे प्रत्यये द्वित्वे सति पूर्वात्परस्य हो घः स्यात् । जघ्नतुः । जघुः । जघनिथ | जघन्थ | जनथुः । जन । जघान । जघन । जघ्निव । जन्निम । हनो वध आशिष्यञौ || ४|४|२१|| आशीर्विषये हन्ते धातोर्वधः स्यात् नतु जौ । वध्यात् । वध्यास्ताम् । वध्यासुः । हन्ता । हनृतः स्यस्य ||४|४|१४९॥ इतीटि हनिष्यति । वशक् कान्ती ॥ ४० ॥ यजसृजे || २|१|८१|| ति षत्वे, तवर्गस्ये ||१|३|६०|| ति टत्वे । वष्टि । वशेरयङि || ४|१|८३॥ वशेः सखरान्तस्था अयङि फ्रुिति वृत्स्यात् । उष्टः । उशन्ति । वक्षि | उष्ठः । उष्ठ । वश्मि । उश्वः । उश्मः । उश्यात् । वष्टु । उष्टात् । उष्टाम् । उशन्तु । उड्डि । उष्टात् । उष्टम् । उष्ट । वशानि । वशाव । वशाम । अवट् । अवडू । वृति | स्वरादेस्ताखि ||४|४|३१|| ति वृद्धौ । औष्टाम् । औशन् । अवटू । अवडू । औष्टम् । औष्ट । अवशम् । औश्व । औश्म । व्यञ्जनादेवपान्त्यस्ये || ४ | ३ |४७ || ति वृद्धौ । अवाशीत् । अवशीत् । अवाशिष्टाम् । अवशिष्टाम् । द्वित्वे, यजादिवशवच ||४|१|७२ || इति वृति । वृद्धौ । उवाश । वशेरयङी ||४|१|६३ || ति वृति । द्वित्वे । ऊशतुः । ऊशुः । उवशिथ । उवाश । वश । ऊशिव । ऊशिम । उश्यात् । वशिता । वशिष्यति । असक भुवि ॥ ४१ ॥ अस्ति । नास्त्यो लुक् ||४|२|९० ॥ श्नाप्रत्ययस्यास्तेश्चातः शित्यविति लुक्स्यात् । स्तः । सन्ति । अस्तेः सिह स्त्वेति ॥४३॥७३॥ अस्तेः सस्य लुक्स्यात्, सादौ प्रत्यये परे एकारे तु प्रत्यये सकारस्य हः `स्वात् । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । स्यात् । स्याताम् । स्युः । प्रादुरुपसर्गाद्यस्वरेऽस्तेः ॥२३॥५८॥ प्रादुःशब्दादुपसर्गस्थनिमित्ताच परस्यास्तैः सकारस्य यादौ स्वरादौ च परे षः स्यात् । प्रादुःष्यात् । निष्यात् । अस्तु । स्तात् । स्ताम् । सन्तु । शाससहन:शाध्येधिजहि ||४|२|६४ || एधि । स्तात् । स्तम् । स्त । असानि । असाव । असाम । सः सिजस्तेः ||४|३|६५॥ इतीदागमे, एत्यस्तेरिति वृद्धौ च । आसीत् । आस्ताम् । आसन् । आसीः । आस्तम् । आस्त । आसम् । आख । आस्म ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy