________________
३०६
स्वपे र्य च ||४|१|८०॥
खपे ङि ङे किति च प्रत्यये वृत् स्यात् । इति वृत् । सुषुपतुः । सुषुपुः । सुष्वपिथ । सुष्वप्थ । सुप्यात् । खप्ता । खप्स्यति । अस्वप्स्यत् ।
I
अवः स्वपः ॥ २३३५७॥
निर्दुः सुविपूर्वस्य वकाररहितखपेः सस्य षः । सुषुषुपतुः । अन श्वसक् प्राणने ।। २९ ।।
द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ २३॥८१॥
अदुरुपसर्गान्तःशब्दस्थाद्रष्टवर्णात् परस्यानितेर्नकारस्य द्वित्वे वाऽद्वित्वे चान्तेऽवानन्ते वर्तमानस्य णः स्यात्, परिपूर्वस्य तु वा । प्राणिति । प्राण्यात् । प्राणितु । प्राणीत् । प्राणत् । प्राणीत् । प्राणिष्टाम् । प्राणिषुः । प्राण । प्राणतुः । प्राण्यात् । प्राणिता । प्राणिष्यति । एवं श्वसितिरपि । अग्रतन्यां व्यञ्जनादेरिति बा वृद्धौ । अश्वासीत् । अश्वसीत् । शश्वास । शश्वसतुः । जक्षक भक्षहसनयोः ॥ ३० ॥ जक्षिति । जक्षितः ।
t
अन्तो नो लुक् ||४|२|९४॥
युक्तजक्षपञ्चतः परस्यान्तो नकारस्य लुक्स्यात् । जक्षति । जक्ष्यात् । जक्षितु । अजक्षत् । अजक्षीत् । अजक्षिताम् ।
युक्तजक्षपञ्चतः ॥४२॥९३॥
कृतद्वित्वाज् जक्षपश्चतश्च परस्य शितोऽनः पुस् स्यात् । अजक्षुः । अजक्षीत् । जजक्ष । जक्ष्यात् । जक्षिता । जक्षिष्यति । इति रुत्पञ्चकम् | दरिद्राक दुर्गतौ ॥ ३१ ॥ दरिद्राति ।
इदरिद्रः || ४|२९८॥
दरिद्रो व्यञ्जनादौ शित्यविति आत इः स्यात् । दरिद्रितः । श्रश्वातः || ४|२|९६॥
युक्तजक्षपश्चतः श्रश्च शित्यविति आकारस्य लुक् स्यात् । दरिद्रति । दरिद्रासि । दरिद्रियात् । अदरिद्रात् । अदरिद्रिताम् । अदरिदुः ।
दरिद्रोऽद्यतन्यां वा ॥४|३|७६ ॥
अस्याद्यन्यां विषये वा लुक् स्यात् । अदरिद्रीत् । अदरिद्विष्टाम् । अदरित्रिषुः । पक्षे । अदरिद्रासीत् । अदरिद्रासिष्टाम् । अदरिद्रासिषुः । धातोरनेके ||३|४|४६|| त्यामि । दरिद्राश्वकार ।