________________
३०२
वीत । अग अकवत् ॥ २१ ॥ रमे शङ्कायाम् ॥ २२ ॥ लगे सङ्गे ॥ २३ ॥ हमे लगे पगे सगे ठगे स्थगे संवरणे ॥ २४ ॥ संवरणमाच्छादनम् । वट भट परिभा षणे || २५ || वेष्टने । वाटयति । भृतौ । भाटयति । नट नृतौ ॥ २६ ॥ मटयति शाखाम् । अन्यत्र नाटयति । गड सेचने || २७ || गडति । ऋफिडादीना || २|३|१०४|| मिति लत्वे । गलति । हेड वेष्टने ॥ २८ ॥ इखत्वे । हिडयति । खविधानान्न गुणः | अहिडि । अहीडि । हिडं हिडम् । हीडं हीडम् । लड जिहोन्मथने ॥ २९ ॥ लडयति जिह्वां कुक्कुरः । अन्यत्र | लाडयति । लत्वे । ललयति । लालयति । लड विलासे इत्यस्यैवार्थविशेषे घटादिकार्यार्थमिह पाठः । फण कण रण गतौ ॥ ३० ॥ फणति । भ्रमे ||४|१|२६|| ति वा एत्वे द्वित्वाभावे च फेणतुरित्यादि । गतेरन्यत्र फाणयति घटम् । निःस्नेहयतीत्यर्थः । काणयति । राणयति । शब्दयतीत्यर्थः । चण हिंसादानयोश्च ॥ ३१ ॥ चागतौ । चणति । चणयति । शब्दे तु चाणयति । शण श्रण दाने ||३२|| शणति । शणयति । अन्यत्र शाणयति । श्रणति । श्रणयति । दापयतीत्यर्थः । चौरादिकस्य तु विश्राणयति । सथ कथ कथ लथ हिंसार्थाः ॥ ३३ ॥ ऋथयति । चौरस्योत्क्राधयतीति तु यौजाविकस्य । न्ताद्वा णिच । जासनाटकाथेतिनिर्देशाद्वा ह्रस्वाभावः । छद अर्जने ॥ ३४ ॥ ऊर्जनं प्राणनं बलं च । छदणू ऊर्जने इति पठिष्यमाणोऽप्यूर्जने घटादिकार्यार्थमिह पठितः । छदयत्यग्निः । स्वार्थे णिच् । छादयन्तं प्रयुङ्क्ते इति किंग्वा । ऊर्जनादम्यत्र छादयति गृहं तृणैः । मदै हर्षग्लेपनयोः ॥ ३५ ॥ मदैच हर्ष इत्यस्वार्थविशेषे हस्त्रार्थं पाठः । मदयति । अन्यत्र मादयति । प्रमादयति । ष्टम स्तन ध्वन शब्दे || ३६ || स्खन अवतंसने ॥ ३७ ॥ खनयति । शब्दे तुस्खानयति । चन हिंसायाम् ॥ ३८ ॥ चनयति । शब्दे तु चानयति । ज्वर रोगे ॥ ३९ ॥ ज्वरति । ज्वरयति । चल कम्पने ॥ ४० ॥ चलयति । अन्यत्र चालयति । हल मल चलने ॥ ४१ ॥ ह्वलयति । मलयति । ज्वल दीप्तौ च ॥ ४२ ॥ ज्वलयति । अन्यत्र ज्वालयति । इति घटादयः । भ्वादिराकृतिगणः । तेन चुलुम्पतीत्यादिसङ्ग्रहः । इति भ्वादयो धातवः ॥
1
नृसिंह सेनाऽप्यभवन्नमस्करी
यया तुलां कोऽप्यदधान्न मस्करी । चकास्ति साऽनन्तचतुष्टयी खयीशितर्जिनानन्त जगत्रयीपते ॥ १ ॥
ऋतेर्डीयः ||३|४|३ ॥
ऋत् घृणागतिवृद्धिषु इत्यतः खार्थे ङीयः प्रत्ययः स्यात् । ऋतीयते । आर्ती
● हे ईशिसः ! हे जिम ! हे अनन्त ! हे जगत्रयीपते ! यया अनन्त चतुष्टय्या नृसिंहसेनाऽपि नमस्करी अभवत् । तथा यथा पूर्वोक्तया कोsपि मस्करी (सन्यासी) तुलां (तुलनां) नादधात् सा अनन्तचतुष्टयी अनन्तज्ञानदर्शनचारित्रवीर्यरूपा त्वयि भगवति चकासि । कषिपुस्तके ईशिवेति पाठः स च छन्दोभङ्गभयानातोऽस्माभिः । पं. ब. नं. मि.