________________
शाद । शत्ता। शत्स्यति । बुध अवगमने ॥ ८॥ अवगमनं ज्ञापनम् । बोधति । अनुस्खारेदयमित्येके । अभौत्सीत् । टुवम् उद्गिरणे ॥ ९॥ अवमीत् । - जृनमेति ॥४२६॥ वा एत्वे । वेमतुः । ववमतुः । भ्रमू चलने ॥१०॥ भ्रास लाशे ॥४७॥ ति वा श्ये । भ्रम्यति । भ्रमति । भ्रमतुः । बभ्रमतुः । क्षर संचलने ॥ ११ ॥ अक्षारीत् । चल कम्पने ॥ १२ ॥ चलति । अचालीत् । जल घात्ये ॥ १३ ॥ घात्यं जडत्वम् । टल टुल वैक्लव्ये ॥ १४ ॥ठल स्थाने ॥१५॥ अषोपदेशोऽयमित्यन्ये । हल विलेखने ॥१६॥ णल गन्धे ॥ १७॥ गन्धोऽर्दनम् । नत्वे । नलति । प्रणलति । बल प्राणनधान्यावरोधयोः ॥ १८॥ बबाल । बेलतुः। बेलुः । पुल महत्त्वे ॥ १९ ॥ कुल बन्धुसंस्त्यानयोः ॥ २० ॥ पल फल शल गतौ ॥ २१ ॥ फेलतुः। फेलुः। फलिशल्योः पुनः पाठो ज्वलादिकार्यार्थः। शले: परस्मैपदार्थश्च । हुल हिंसासंवरणयोश्च ॥ २२ ॥ चाद्गती । क्रुशं आह्वानरोदनयोः ॥ २३ ॥ हशिट् इति सकि । अक्रुक्षत् । कोष्टा । कस गती ।। २४ ॥ कसति । महं जन्मनि ॥ २५॥ बीजजन्मनीत्यन्ये । बीजजन्माङ्करोत्पत्तिः । रो. हति । अरुक्षत् । रोढा । रमि क्रीडायाम् ॥ २६ ॥ षहि मर्षणे ॥ २७ ॥ घटिए चेष्टायाम् ॥ १॥ घटते । घटादेहखो दीर्घस्तु वा त्रिणम्परे ॥४॥२४॥ इति घटादिसंज्ञाफलं वक्ष्यते। अघटिष्ट । जघटे । घटिता । घटिष्यते । घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेन उद्धाटयति कमलवनम् । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादिसिद्धम् । विघटयतीत्यादि तु अजन्तस्य णिज्बहुलं नान्नः कृगादिषु ॥३३४१४२॥ इति करोत्यर्थे णिचि रूपम् । क्षजुङ् गतिदानयोः ॥२॥ क्षञ्जते । अक्षञ्जि । अक्षाञ्जि । क्षझं क्षञ्जम् । क्षानम् क्षाञ्जम् । व्यथिष् भयचलनयोः ॥ ३ ॥ व्यथते । अव्यथिष्ट । ज्याव्ये ॥४१७१॥ इत्यादिना विव्यथे । प्रथिष् प्रख्याने ॥४॥प्रथते । अप्रथिष्ट । पप्रथे। प्रदिष् मर्दने ॥५॥ प्रदते । अम्रादि । अम्रदि । म्रदम् ब्रदम् । मादं नादम् । स्खदिष् खदने ॥ ६॥ खदनं विदारणम् । स्खदते । कदुङ् ऋदुङ क्लदुङ् वैलव्ये ॥७॥ वैकल्य इति चन्द्रः । कन्दते । क्रन्दते । क्लन्दते । ऋपि कृपायाम् । क्रपते। त्रित्वरिष् संभ्रमे ॥ ८॥ स्वरते । इखे । त्वरयति । प्रसिष् विस्तारे ॥९॥ प्रसते। प्रसव इत्यन्ये । दक्षि हिंसागत्योः ।। १०॥ दक्षते । श्रां पाके ॥ ११॥ 3 पाके ॥१२॥ श्रांक पाके ॥ १३ ॥ इत्यस्य च घटादिकार्यार्थः पाठः । श्रपयति । अश्रापि । अश्रपि । अपं श्रपम् । श्रापम् श्रापम् । अन्यत्र श्रापयति । स्मृ आध्याने ॥ १४॥ स्मरयति । आध्यानादन्यत्र स्मारयति । दृ भये ॥ १५ ॥ दरति । दरयति । भयादन्यत्र काष्ठं दारयति । नृ नये ॥१६॥ घटादिरयम् । नृणन्तं प्रयुङ्क्ते। नरयति । नयादन्यत्र । नारयति । ष्टक स्तक प्रतिघाते ॥ १७ ॥ स्तकति । षोपदेशवात् षत्वे । तिष्टकयिषति । द्वितीयस्य तु । तिस्तकयिषति । चक तृप्तौ च ॥१८॥ चकति । चकयति । अयमात्मनेपदेऽपि। चकते। अक कुदिलायां गतौ ॥ १९ ॥ अकति । णो हखखे । अकयति । कखे हसने ॥ २० ॥ कखति । अक