SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ व्य स्थवणवि ॥४२॥३॥ व्ययतःस्थवि चि च विषयभूते आत्वं न स्यात् । द्वित्वे । ज्याव्येव्यधिव्यचिव्यथेरिः ॥४॥१॥७॥ एषां परोक्षायां द्वित्वे पूर्वस्य इः स्यात् । नामिनोऽकलिहलेरितिवृद्धौ । विव्याय । विव्यतुः। विव्युः । ऋवृव्येऽद ॥४॥४९॥ इति नित्यमिट् । विव्ययिथ । विव्याय । यजादिवचेरिति वीयात् । व्याता । व्यास्यति । व्ययते । अव्यास्त । विव्ये । विव्यिषे । व्यासीष्ट । ढेंग स्पर्धाशब्दयोः ॥५४॥ आह्वयति । - हालिप्सिचः ॥३॥४॥३२॥ एभ्योऽद्यतन्यामङ् स्यात् । आहूत् । आह्वताम् । आह्वन् । द्वित्वे हः ॥४॥१॥८७॥ द्वेगो द्वित्वविषये सखरान्तस्था वृत् स्यात् । हु हु इति द्विवे । आजु. हाव । धातोरिवर्णोवर्णेत्युवादेशः । आजुहुवतुः । आजुहविथ । आजुहोय । आहूयात् । आहाता । आह्वास्यति । आह्वयते । वाऽऽत्मने ॥३॥४॥३॥ हालिप्सिचिभ्योऽद्यतन्यामना स्यादात्मनेपदे परे । आहत । आह्रास्त । आह्वेताम् । आह्वासाताम् । आजुहुवे । आजुहुविषे । आह्रासीष्ट । हः स्पर्धे ॥३॥३॥५६॥ आपूर्वाद् हयतेः स्पर्धेऽर्थे आत्मनेपदमेव स्यात् । मल्लो मल्लमायते । अन्यत्र गामाह्वयति। संनिवेः ॥३॥३॥५७॥ एभ्योऽप्यात्मनेपदमेव । वहीं प्रापणे ॥ ५५ ॥ वहति । अवाक्षीत् । सहिवहोरोचावर्णस्येत्योत्त्वे । अवोढाम् । अवाक्षुः । उवाह । ऊहतुः । उवहिथ । इडभावपक्षे उवोढ । उह्यात् । वोढा । वक्ष्यति । अवक्ष्यत् । वहते । उवोट । अवक्षाताम् । अवक्षत । ऊहे । अहिले । वक्षीष्ट । वोढा । वक्ष्यते । अवक्ष्यत । प्राद्वहः ॥२२१०३।। इत्यनेन परस्मैपदमेव । पचहनि । एने यजादावुभयपदिनः। डओश्वि गतिवृद्ध्योः ॥५६॥श्वयति। दूधेश्वेर्वा ॥२४५९॥ इति वैकल्पिके के द्विर्धातुरिति द्वित्वे संयोगादितीयादेशे। अशिश्वियत् । पक्षे ऋदिच्छी ॥२४॥६५॥ त्यादिनाऽङि। श्वयत्यसूवचपतः श्वास्थवोचपप्तम् ॥४॥३॥१०॥ एषां चतुर्णामङि परे श्व अस्थ वोच पप्त इत्येते क्रमात्स्युः। अश्वत् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy