________________
गोहः स्वरे ॥४॥२॥४२॥ कृतगुणस्य गुहः खरे परे उपान्त्यस्य ऊत्स्यात् । गृहति । गृहते । अगृहीत् । इडभाचे सक् । अधुक्षत् । अगूहिष्टाम् । अघुक्षाताम् । अहिष्ट । इडभावे। दुहदिहेति वा सको लुकि । अगूढ । अघुक्षत । जुगूह । गुह्यात् । गृहिता। गोढा । इत्यादि । भ्लक्षी भक्षणे ॥ ४९ ॥ भ्लक्षति । भ्लक्षते । भक्षीत्यन्ये । यजीं देवपूजासंगतिकरणदानेषु ॥५०॥ यजति । यजते । अयाक्षीत् । अयष्ट ।
यजादिवशवचः सस्वरान्तस्था रवृत् ॥४॥१॥७२॥ __ यजादेर्वशवचोश्च परोक्षायां द्वित्वे पूर्वस्य सखरान्तस्था रवृत् । इकारोकारऋकाराः प्रत्यासत्तेः स्युः । इयाज ।
यजादिवचेः किति ॥४॥१॥७९॥ यजादेर्धातोर्वचश्च तादृग् यवृत् स्थात्किति। ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजिव । ईजिम । ईजे । इज्यात् । यक्षीष्ट । यष्टा । यक्ष्यति । यक्ष्यते । टुवी बीजसन्ताने ॥ ५१ ॥ क्षेत्रे विकिरण इत्यर्थः । गर्भाधाने छेदने च । केशा. न्धपति । वपते । अवाप्सीत् । अवप्त। उवाप । ऊपतुः । ऊपे । उप्यात् । वप्सीष्ट। वप्ता । वप्स्यति । वप्स्यते । वेंग तन्तुसन्ताने ॥ ५२ ॥ वयति । अवासीत्।।
वेर्वय् ॥४॥४॥१९॥ वेगः परोक्षायां वय वा स्यात् । उवाय । यजादिवचेः कितीति वृति, द्वित्वे अथिति स्यात् ।
न वयो य ॥४॥७३॥ वेगादेशस्य वयो यकारः परोक्षायां य्वृन्न स्यात् । ऊयतुः। ऊयुः । उवयिथ । जयथुः । ऊय । उवाय । उवय । ऊयिष । यिम । वयादेशाभावे ।
वेरयः ॥४॥११७४॥ वेगोऽयकारान्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न स्यात् । आत्सन्ध्यक्षरस्येत्यावे । ववौ।
अविति वा ॥४॥११७५॥ वेगोऽयकारान्तस्य अथिति यादौ परे स्वृन्न स्याद्वा । ववतुः। अवतुः । वः । ऊचुः । द्वित्वे कृते परत्वाद्धातोरुवादेशे पश्चात्समानदीर्घः । ववाथ । वविथ । खरान्तत्वादिभिकल्पः । ऊयात् । वाता । वास्यति । अवास्यत् । वयते । अवास्त । ऊये । ऊवे । अधिषे । ऊविषे पक्षे । ववे । वविषे । वासीष्ट । व्यग् संघरणे ॥ ५३॥ व्ययति । अव्यासीत् ।
चं. प्र. ३८