SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९५ कृगो यिच ||४| २|८८॥ कृगः परस्योकारस्य यादौ चकारे मकारे चाविति प्रत्यये लुकू स्यात् । कुवेः । कुर्मः । न कुरुच्छुरुः ॥ २|१|६६॥ अनयोर्नामिनो रेफेन दीर्घः । कुर्यात् । करोतु । कुरुतात् । कुरुताम् । कुर्वन्तु । असंयोगादोः || ४|२|८६॥ असंयोगात्परो य उकारः प्रत्ययस्ततः परस्य हेर्लुक्स्यात् । कुरु । कुरुतात् । कुरुतम् । कुरुत । करवाणि । करवाव । करवाम | अकरोत् । अकुरुताम् | अकुर्वन् । अकरोः । अक्कुरुतम् । अकुरुत | अकरवम् । अकुर्व । अकुर्म । अकार्षीत् । अकाम् । अकार्षुः । अकार्षीः । अकार्ष्टम् । अकार्ष्ट । अकार्षम् । अका | अकार्ष्म । चकार । चक्रतुः । चक्रुः । चकर्थ । चक्रथुः । चक्र । चकार । चकर । चक्रव । चक्रम | क्रियात् । क्रियास्ताम् । क्रियासुः । क्रियाः । क्रियास्तम् । क्रियात | कर्ता | करिष्यति । अकरिष्यत् । कुरुते । कुवते । कुर्वते । कुर्वीत । कुर्वीयाताम् । कुर्वीरन् । कुरुताम् । कुर्वाताम् । कुर्वताम् । कुरुष्व । कुर्बाधाम् । कुरुध्वम् । करवै । करवावहै । करवामहै । अकुरुत । अकृत । अकृषाताम् । चक्रे । कृषीष्ट । कर्ता | करिष्यते । अकरिष्यत । सम्परेः कृगः स्सट् ॥४|४|११ ॥ आभ्यां परस्य कृग आदिः स्सट् स्यात् । संस्स्करोति । परिष्करोति । उपाद्भूषासमवायप्रतियत्नविकारवाक्या ध्याहारे ||४|४|१२॥ उपात्परस्य कृगो भूषादिष्वर्थेषु आदिःस्सद् स्यात् । उपस्करोति कन्याम् । इत्यादि । हिक्की अव्यक्ते शब्दे ||७|| हिक्कति । हिक्कते । ईदित्वात्फलवति कर्तरि afra इत्यात्मनेपदम् । अन्यत्र शेषात्परस्मैपदिषु पठितः स चास्य पाठो गतौ फलवत्कर्तर्यपि परस्मैपदार्थः । अञ्चगूगतौ च ॥ ८ ॥ गतिपूजयोरयम् । अञ्चति । अञ्चते । डुयाघृग् याच्ञायाम् ॥ ९ ॥ याचति । याचते । द्विदयमित्येके । डुपचष पाके ॥ १० ॥ पचति । 1 1 व्यञ्जनानामनिटि ||४|३|४५॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटिसिचि परे समानस्य बृद्धि: स्यात् । अपाक्षीत् । बहुवचनं जात्यर्थम् । व्यञ्जनत्वजात्याक्रान्तैकानेक व्याशिपरिग्रहार्थं यावत् । तेनानेकव्यञ्जनव्यवधानेऽपि स्यात् । अराक्षीत् । पपाच ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy