________________
२९४
मौज्येज्योपनयननियमव्रतादेशेषु ॥ १९० ॥ दीक्षते । अदीक्षिष्ट । दिदीक्षे। ईक्षि दर्शने ॥ १९१ ॥ ईक्षते । ऐक्षत । ऐक्षिष्ट । ईक्षाश्चके । इत्यात्मनेपदिनः॥
अथोभयपदिनः॥ शान्दानमान्वधान्निशानार्जवविचारवैरूप्ये
दीर्घश्वेतः ॥३॥४७॥ एभ्यः स्वार्थे सन् स्यात् । एष्वर्थेषु द्विवंचने कृते दीर्घश्च पूर्वस्येकारस्य। शीशांसति । शीशांसते। दीदांसति । दीदांसते । श्रिर सेवायाम् ॥ १॥ श्रयति । श्रयते । णिश्रीति । अशिश्रियत् । अशिश्रियत । शिश्राय । शिश्रियतुः। शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता । श्रयिष्यति । अयिष्यते । अश्रयिष्यत् । अश्रयिष्यत । णींग प्रापणे ॥ २॥ निनयिथ । निनेथ । निन्यिषे । भुंग भरणे ॥ ३ ॥ भरति । भरते । अभार्षीत् । अभार्टीम् । अभाषुः । अभृत । अभृषाताम् । अभृषत । बभार । बभ्रतुः। बभर्थे । बभृव । बभृम । अमृभृ ॥१४॥२१॥ इतिनिषेधान्नेट् । बभ्रे । बभ्राते । भ्रियात् । भृषीष्ट।
ऋवर्णात् ॥४॥३॥३६॥ .. ऋवर्णान्ताद्धातोः परावनिटावात्मनेपदविषये सिजाशिषी किवद्भवतः । इति कित्त्वान्न गुणः। भर्ती । भरिष्यति । भरिष्यते । अभरिष्यत् । अभरिष्यत । हूंग हरणे ॥ ४॥ हरणं पापणं स्वीकारः स्त्येयं नाशनं च । हरति । हरते । अहा. पौत् । अहृत । जहार । जहर्थ । जहिव । जहे । जहिये। हियात् । हृषीष्ट । हर्ता। हरिष्यति । हरिष्यते । श्रृंग धारणे ॥५॥ धरति । धरते । अधार्षीत् । अधृत । डुकंग करणे ॥६॥
कृगतनादेरूः॥३।४।८३॥ कृगस्तनादेश्व गणात्कर्तरि विहिते शिति उ प्रत्ययः स्यात् । अयं तनादिमध्ये पाठा)ऽप्यत्र पठितः सिचो धुड्हस्वादिति ॥ ४३१० ॥ नित्यलुगर्थः। शवर्थश्च । तेन करति । करते । इत्याद्यपि भवति ।
उश्नोः ॥४॥३॥२॥ धातोः परयोरु भु इत्येतयोरकृिति प्रत्यये गुणः स्यात् । करोति ।
अतः शित्युत् ॥४॥२।८९॥ शित्यिविति प्रत्यये यः कृग उकारस्तन्निमित्तो योऽकारस्तस्य उकारः स्यात् । कुरुतः । कुर्वन्ति । करोषि । कुरुथः । कुरुथ । करोमि ।