________________
२९३
णसि कौटिल्ये ॥१६७ ॥ प्रणसते । भ्यसि भये ॥ १६८॥ भ्यसते । अभ्यसिष्ट । अभ्यसे । भेष इति चन्द्रः। भेषते। आङ् शसुङ इच्छायाम् ॥ १६९ ॥ आशंसते । ग्रसूङ्क ग्लसूडू अदने ॥ १७० ॥ घसुडू करणे ॥ १७१ ॥ घसते । मूर्धन्यान्तोऽयमिति चन्द्रः। ईहि चेष्टायाम् ॥ १७२॥ ईहते । ईहाश्चक्रे । अडुलिहि गतौ ॥ १७ ॥ अंहते । आनंहे । प्लेहते। पिप्लिहे । गर्हि गहि कुत्सने ॥ १७४ ॥ बर्हि बहि प्राधान्ये ॥ १७५॥ बर्हि वह्नि परिभाषणहिंसाच्छादनेषु ॥ १७६ ॥ दानेऽप्यन्ये । दन्त्योष्ठ्यादी । अवह्निध्वम् । अवहिदम् । वेह जेहृङ्वाहप्रयने ॥ १७७ ॥ विवेहे । जिजेहे । ववाहे । द्राहृङ् निक्षेपे ॥१७८ ॥ निद्राक्षेपे इत्येके । द्राहते । ददाहे । ऊहि तर्के ॥ १७९ ॥ ऊहते । ऊहाञ्चके । तर्क उत्प्रेक्षा। गाहौ विलोडने ॥ १८० ॥ विलोडनं परिमलनम् । अगाहिष्ट । अगाढ । जगाहे । गाहिषीष्ट । घाक्षीष्ट । गाहिता । गाढा । गाहिष्यते । घाक्ष्यते । षहि मर्षणे ॥१८१॥ ज्वलादिरयम् । सहते।
__ असोङसिवूसहस्सटाम् ॥२॥३॥४८॥
परिनिविभ्यः परेषामेषां सस्य षः स्यात् सोङविषयं वर्जयित्वा । विषहते। निषहते।
स्तुस्वाश्चाटि नवा ॥२॥३॥४९॥ परिनिविभ्यः परस्य स्तुस्खञ्जोरसोङसिसहस्सटां चाटि सति सस्य वा षः स्यात् । पर्यषहत । पर्यसहत । असहिष्ट । सेहे । सहिषीष्ट ।
सहलुभेच्छरुषरिषस्तादेः ॥४॥४॥४६॥ एभ्यस्तादेरशित इड्डा स्यात् । सहिता । पक्षे । हस्य ढत्वे, तस्य धस्वे, धस्यापि ढत्वे, सहिवहेरिति ढलोपे, ओकारे च । सोढा । असोङ इति किम्? विसोढा । मा परिसीषिवत् । ग्लहौङ् ग्रहणे ॥१८२ ।। ग्लहते । जग्लहे । औदित्वाद्वेट् । ग्लहिता । ग्लाढा । गृहौङ् इत्येके ॥१८।। गर्हते । अगर्हिष्ट । इडभावे । हशिटो नाम्युपान्याददृशोऽनिटः सक ॥३॥४॥५५॥
हशिडन्तानाम्युपान्त्यादृशिवर्जितादनिटो धातोरद्यतन्यां परतः स प्र. त्यय: स्यात् । अघृक्षत।
स्वरेऽतः॥४॥३७५॥ सकोऽकारस्य स्वरादी प्रत्यये परे लुक्स्यात् । अघृक्षाताम् । अवृक्षन्त । इत्यादि । वहु महु वृद्धौ ॥ १८४ ॥ वंहते । मंहते। दक्षि शैध्ये च ॥ १८५ ॥ धुक्षि धिक्षि सन्दीपनक्लेशनजीवनेषु ॥ १८६ ॥ धुक्षते । धिक्षते । वृक्षि वरणे ॥ १८७ ॥ शिक्षि विद्योपादाने ॥ १८८॥ भिक्षि याच्मायाम् ॥ १८९ ॥ दीक्षि