________________
२४
सोऽपेक्षायाम् || २|३|११॥
इसुस्प्रत्ययान्तस्य यो रेफस्तस्य कखपफेषु परेषु षो वा स्यात् । स्थानिनिमिसदे चेत् परस्परापेक्षे स्याताम् । सर्पिः करोति सर्पिष्करोति । धनुः करोति धनुष्करोति । मुहुरित्यव्युत्पन्नमव्ययम् । तेन मुहुः पठति अत्र न षत्वम् । अपेक्षायामिति किम् ? तिष्ठतु सर्पिः पिव त्वमुदकम् । इसा साहचर्यादुस औणादिकस्य ग्रहणं तेन च कुलानि इत्यादौ जिह्वामूलीयो, न षत्वम् ।
नैकार्थेऽक्रिये ॥२|३|१२॥
न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे- समानाधिकरणे पदे यत्कखपफं तस्मिन् परे इसुसन्तस्य रेफस्य षो न भवति । पूर्वस्यापवादः । सर्पिः कालकम् । यजुः पीतकम् । एकार्थे इति किम् ? सर्पिष्कुम्भे । धनुष्पुरुषस्य । अक्रिय इति किम् ? सर्पिष्क्रियतेऽत्र ।
समासेऽसमस्तस्य ॥ २|३|१३ ॥
पूर्वेणासमस्त स्ये सुस्प्रत्ययान्तस्य सम्बन्धिनो रेफस्य कखपफे परे षो नित्यं स्यात् । समासे-तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । सर्पिष्कुम्भः । सर्पिष्पानम् । धनुष्पृष्ठम् । असमस्तस्येति किम् ? परमसर्पिःकुण्डम् । अत्र पूर्वेण सर्पिः पदं समस्तं तेन विसर्गः ।
अतः कृकमिकंसकुम्भकुशाकर्णिपात्रेऽनव्य
यस्य || २|३|५|
अकारात्परस्यानव्ययस्य रेफस्य कृकम्यादिस्थेषु कखपफेषु परेषु सः स्यात् एकत्र समासे निमित्तनिमित्तिनोर्भावे । अयस्कृतम् | यशस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्कुशा । अयस्कर्णी । अयस्पात्रम् । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् अयस्कुम्भी, अयस्पात्री । अतः किम् ? गीः कारः । अनव्ययस्पेति किम् ? खः कामः । समासे किम् ? यशः करोति ।
शिरोऽवसः पदे समासैक्ये || २|३ | ४ ||
एतयो रेफस्य पदशब्दे परे सः स्यात् समासैक्ये । शिरस्पदम् । अधस्पदम् । समासे किम् ? शिरः पदम् । ऐक्ये इति किम् ? परमशिरः पदम् ।
परमाधः पदम् ।
इति व्यञ्जनसन्धिः ॥