SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २३ रः कखपफयोः क पौ ॥ १३५ ॥ स्पष्टम् । कर् करोति ककरोति । कर खनति कखनति । कर् पचति क) (पचति । कर् फलति क) (फलति । पक्षे विसर्गः । कः करोति । कः खनति । कः पचति । कः फलति । प्रत्यये || २|३|६|| अनव्ययस्य यो रेफस्तस्य प्रत्ययविषयेषु कखपफेषु सः स्यात् । पयस्पाशम् । पयस्कल्पम् । पयस्कम् । अनव्ययस्येति किम् ? प्रातः कल्पम् | प्रातःकल्पम् । पाशादयस्तद्धिताः । रोः काम्ये || २|३|७॥ अनव्ययस्य रेफस्य रोरेव काम्यप्रत्यये परे सः स्यात् । पयस्काम्यति । रोरिति किम् ? गीः काम्यति । अहः काम्यति । नामिनस्तयोः षः ॥ २३॥८॥ 'प्रत्यये' 'रोः काम्ये' इत्येतत्प्रागुक्तसूत्रद्वय विषये नामिन उत्तरस्य रेफस्य षः स्यात् । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति । तयोरिति किम् ? मुनिः करोति मुनि करोति । गीः काम्यति गी काम्यति । नमस्पुरसो गतेः कखपफि रः सः ॥ २|३|१॥ नमस्पुरसोर्गतिसंज्ञयो रेफस्य कखपफेषु सः स्यात् । नमस्कृत्य । पुरस्कृत्य । साक्षादादित्वाद्विकल्पाङ्गतिसंज्ञा । अन्यत्र नमः करोति । नमः शब्दमुच्चारयतीत्यर्थः । पुरोऽस्तमव्यय ( ३३११७ ) मितिनित्यं गतिसंज्ञा । तेन पुरस्करोति । अगतित्वे पुरः करोति नगराणि विधत्ते । निर्दुर्वहिराविष्प्रादुश्चतुराम् || २|३|९|| एषां रेफस्य कखपफेषु परेषु षः स्यात् । निष्कृतम् । दुष्कृतम् । बहिष्कृतम् । आविष्कृतम् । प्रादुष्कृतम् । चतुष्कण्टकम् । नैष्कुल्यमित्यादि । एकदेशविकृतमनन्यवत् । सुचो वा ॥२|३|१० ॥ सुजन्तानां रेफस्य षः स्यात् कखपफेषु । द्विष्करोति । द्विः करोति । तिरसो वा ॥२३२॥ गतिसंज्ञायां तिरसो रेफस्य कखपफेषु सो वा स्यात् । तिरस्कृत्य । तिरःकृत्य ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy