________________
२२
स्वरेभ्यः ||१|३|३० ॥
स्वरात्परस्य छस्य पदान्तेऽपदान्ते च द्वे रूपे स्तः । इच्छति । हीच्छति । तव च्छत्रम् ।
अनाङमाङो दीर्घाद्वा छः ||१|३|२८ ॥
आङ्माङ्वर्जितपदसम्बन्धिनो दीर्घात्परस्य पदान्ते छस्य द्वे रूपे वा स्याताम् । कन्याच्छन्नम् कन्याछत्रम् | अनाङ्गमाङिति किम् ? माच्छिंदत् ।
आच्छाया ।
लुताद्वा ॥ १|३|२९ ॥
पदान्ते वर्तमानाद्दीर्घस्थानात्लुतात्परस्य छकारस्य द्वे रूपे वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय । आगच्छ भो इन्द्रभूते ३ छत्रमानय । दीर्घादित्येव । आगच्छ भो देवदत्त ३ छत्रमानय ।
चटते सद्वितीये ॥१३७॥
पदान्तरेफस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं श ष स इत्येते आदेशाः स्युः । कर अग्रे चरति कश्चरति । कर छादयति कश्छादयति । करू टीकते कष्टीकते । कर् ठः कष्ठः । कर् तरति कस्तरति । कर थुडति कस्थुडति ।
शिट्यघोषात् ॥ १|३|५५ ॥
अघोषात्परे शिटि पदान्ते रेफस्य विसर्ग एव नियमात्स्यात् । तेन सस्वनेकपा' न स्युः । कऱ त्सरुः कः त्सरुः । वासः क्षौमम् । सर्पिः प्सातम् ।
व्यत्यये लुग्वा ||१|३|५६॥
शिटः परोऽघोष इति व्यत्ययः । तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग्वा स्यात् । कर ष्ठीवति कष्ठीवति कः ष्ठीवति ।
शषसे शषसं वा ॥ १|३|६ ॥
पदान्ते रेफस्य शषसेषु परेषु शषसा वा स्युः । कर शेते कश्शेते । कर षष्ठः कष्षष्टः । कर् साधुः कस्साधुः । पक्षे
रः पदान्ते विसर्गस्तयोः ॥ १|३|५३ ॥
पदान्ते रेफस्य विसर्गः स्यात् । तयोः - विरामाघोषयोः परयोः । कः शेते । कः षष्ठः । कः साधुः ।