SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २२ स्वरेभ्यः ||१|३|३० ॥ स्वरात्परस्य छस्य पदान्तेऽपदान्ते च द्वे रूपे स्तः । इच्छति । हीच्छति । तव च्छत्रम् । अनाङमाङो दीर्घाद्वा छः ||१|३|२८ ॥ आङ्माङ्वर्जितपदसम्बन्धिनो दीर्घात्परस्य पदान्ते छस्य द्वे रूपे वा स्याताम् । कन्याच्छन्नम् कन्याछत्रम् | अनाङ्गमाङिति किम् ? माच्छिंदत् । आच्छाया । लुताद्वा ॥ १|३|२९ ॥ पदान्ते वर्तमानाद्दीर्घस्थानात्लुतात्परस्य छकारस्य द्वे रूपे वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय । आगच्छ भो इन्द्रभूते ३ छत्रमानय । दीर्घादित्येव । आगच्छ भो देवदत्त ३ छत्रमानय । चटते सद्वितीये ॥१३७॥ पदान्तरेफस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं श ष स इत्येते आदेशाः स्युः । कर अग्रे चरति कश्चरति । कर छादयति कश्छादयति । करू टीकते कष्टीकते । कर् ठः कष्ठः । कर् तरति कस्तरति । कर थुडति कस्थुडति । शिट्यघोषात् ॥ १|३|५५ ॥ अघोषात्परे शिटि पदान्ते रेफस्य विसर्ग एव नियमात्स्यात् । तेन सस्वनेकपा' न स्युः । कऱ त्सरुः कः त्सरुः । वासः क्षौमम् । सर्पिः प्सातम् । व्यत्यये लुग्वा ||१|३|५६॥ शिटः परोऽघोष इति व्यत्ययः । तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग्वा स्यात् । कर ष्ठीवति कष्ठीवति कः ष्ठीवति । शषसे शषसं वा ॥ १|३|६ ॥ पदान्ते रेफस्य शषसेषु परेषु शषसा वा स्युः । कर शेते कश्शेते । कर षष्ठः कष्षष्टः । कर् साधुः कस्साधुः । पक्षे रः पदान्ते विसर्गस्तयोः ॥ १|३|५३ ॥ पदान्ते रेफस्य विसर्गः स्यात् । तयोः - विरामाघोषयोः परयोः । कः शेते । कः षष्ठः । कः साधुः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy