________________
२१
पुंसः ||२|३|३||
पुंसशन्दसम्बन्धिनो रेफस्य कखपफेषु सः स्यात् । पुम् कोकिलः पुंस्कोकिलः पुंस्कोकिलः । पुम् पुत्रः पुंस्पुत्रः पुंस्पुत्रः । अशिदिति किम् ? पुंशिरः । अघोष इति किम् ? पुंदासः । अधुद्रपरे इति किम् ? पुंक्षीरम् । अख्यागीति किम् ! पुङ्ख्यानम् ।
नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुट् परे ॥ १|३|८ ॥
पदान्ते नकारस्य प्रशान्वर्जितस्याऽधुट् परेषु चटतेषु छठथेषु वा परेषु यथासंख्यं श ष स इत्येते आदेशाः स्युः । अनुखारानुनासिकौ च पूर्वस्य - अनुस्वार आगमोऽनुनासिकश्चादेशः पूर्वस्य क्रमेण स्याताम् । भवान् चरति भवांश्चरति भवाँश्चरति । भवान् टीकते भवांष्टीकते भवाँष्टीकते । भवान् तरति भवांस्तरति भवाँस्तरति । अप्रशानिति किम् ? प्रशान् चरति । अधुद्रपरे इति किम् ? भवान्त्सरुकः खड्गमुष्टिः ।
नॄनः पेषु वा ॥ १|३|१०॥
नृनः पकारे रोऽन्तादेशो वा स्यात् । अनुखारानुनासिकौ च पूर्वस्य । रः कखपफयोः क पौ ॥ १३५ ॥
पदान्ते रेफस्य करने पफे च परे यथासंख्यं क ८ पावादेशौ वा स्याताम् । नुं पाहि । नूँ > पाहि । नृः पाहि नृः पाहि नृन्पाहि । पेष्वित्यत्र बहुवचनं व्यास्यर्थं तेनाधुपर इति निवृत्तम् । तेन नूंः प्सातीत्याद्यपि भवति ।
द्विः कानः कानि सः ॥ १३ ॥ ११ ॥
कानः शसन्तस्य द्विरुक्तस्य कानि परे सः स्यात्, तत्पक्षेऽनुखारानुनासिको च पूर्वस्य । काँस्कान् कांस्कान् । द्विरिति किम् ? कान् कान् पश्यति । अत्रैकः किं प्रश्नेऽन्यस्तु क्षेपे । रस्याधिकारेणैव सिद्धे सकारकरणं रुत्वबाधनार्थम् ।
भ्रातुष्पुत्रकस्कादयः || २|३|१४||
एते शब्दा रेफस्थाने यथासंख्यं कृतपत्वसत्त्वाः साधवः स्युः । भ्रातुष्पुत्रः । सर्पिष्कुण्डिका । धनुष्कपालम् । कस्कः । कौतस्कुतः । भास्करः इत्यादयः । आकृतिगणोऽयम् ।