________________
नः शि ञ्च् ॥१३॥१९॥ पदान्ते नकारस्य शे परे ५ इत्ययमादेशो वा स्यादश्वः। भवान् अग्रे शूर:, भवाञ्च् शूरः। प्रथमाधुटी (१९२४) ति छत्वे भवाञ्छूरः । धुटो धुटीति चलोपे भवाश् छुरः। पक्षे भवाञ् शूर इति। अचशा अचछा अच्छौजशौ रूपचतुष्टयम् । आदेशच्छत्वलोपानां विकल्पकरणादिह ॥१॥ आदेशबलान चकारस्य कत्वम् ।
ह्रवान् पनो द्वे ॥१३॥२७॥ इखात्परेषां ङणनानां पदान्ते खरे परे द्वे रूपे स्याताम् । क्रुङ् आस्ते क्रु-डास्ते । सुगण् इह सुगपिणह । पचन आस्ते पचन्नास्ते । कुर्वन् आस्ते कुर्वनास्ते । बहिरङ्गस्य द्वित्वस्यासिद्धत्वाण्णत्वं न । उणादय इत्यादौ खरूपनिर्देशादनत इत्यादौ तु अविधानबलान्न द्वित्वम् ।
स्सटि समः ॥१॥३॥१२॥ समित्येतस्य स्सटि परे सकारोऽन्तादेशः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । सँस्स्कर्ता । संस्स्कर्ता ।
लुक् ॥१३॥१३॥ समित्येतस्य स्सटि परे लुक् स्यात् । पृथग्योगान्नानुस्खारानुनासिकौ । सस्कर्ता । मतान्तरे तु तावपि स्याताम् । ततो द्विसकारं रूपद्वयम् । एकसकारमपि रूपद्वयम् । तत्रादीर्घाद्विरामैके (२२३२३२) त्यादिना सकारद्वित्वे त्रिसकारक रूपद्वयम्। संयुक्तव्यञ्जनेऽपीच्छन्तीति मताश्रयणात् । औत् अन्तो यस्मिन् स औदन्तः, औकारसामीप्यवान् इति व्युत्पत्याऽनुवारस्यापि वरत्वात् । तत एकदित्रिसकारवतां त्रयाणां सानुनासिकानां रूपाणां शिट: प्रथमद्वितीयस्ये(१२३३५)ति कद्वित्वे षडू रूपाणि । एवं सानुस्खाराणामपि षट् । कस्यादिः कादि. रितिव्याख्यानेऽनुस्वारस्य व्यञ्जनत्वेऽदीर्धादि (१२३२)ति द्वित्वे द्वादश रूपाणि । एवमष्टादशानां रूपाणां तकारद्वित्वे बचनान्तरेण पुनर्द्वित्वे एकतं द्वितं त्रितमिति रूपाणि चतुष्पञ्चाशत् । अ इ उ वर्णस्यान्ते (११२।४१) इत्यादिनाऽनुनासिकेऽष्टशतरूपाणि ।
पुमोऽशिट्यघोषेऽख्यागि रः ॥१॥३॥९॥ पुमित्येतस्य रोऽन्तादेशः स्यात् शिख्यावर्जितेऽधुट्परेऽघोषे परे, अनुखारानुनासिकौ च पूर्वस्य ।