________________
२९१
णिश्रिदुमुकमः कर्तरि ङः ||३|४|५८ ॥
तात्यादिभ्यश्च कर्तर्यद्यतन्यां ङः प्रत्ययः स्यात | अकाम् इ अत
इति स्थिते ।
णे रनिटि || ४ | ३ |५३॥
अनिव्यशिति प्रत्यये गेर्लुक् स्यात् । इय्यत्व गुणवृद्धिदीर्घतागमानां बाधकोऽयम् । इय् । अततक्षत् । यत्वम् । आटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते । तागमः । प्रकार्य ।
उपान्त्यस्यासमानलोपि शास्वृदितो डे ॥४|२|३५॥ समानलोपिशासऋदिवर्जिताद्धातोरुपान्त्यस्य ङपरे णौ ह्रस्वः स्यात् ।
द्विर्धातुरिति द्विवे |
स्वरादेर्द्वितीयः || ४|११४॥
खरादेर्धातोर्द्वित्वभाजो द्वितीयांश एकखरो द्विः स्यात् नत्वाद्यः ।
असमानलोपे सन्वल्लघुनि डे ||४|१|६३ ॥
न विद्यते समानलोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे सति पूर्वस्य लघुनि धावरे परे सनीव कार्य्यं स्यात् । सन्यस्येत्वमुक्तमिहापि तथा ।
सन्यस्य ||४|१|५९॥
धातोर्द्वित्वे पूर्वस्याकारस्य इः स्यात्सनि परे ।
लघोर्दीर्घोऽखरादेः ॥४|१|६४॥
अखरादेर्धातो परे णावसमानलोपे द्वित्वे पूर्वस्य लघोदर्घः स्यात् लघुनि धाक्षरे परे । अचीकमत । णिङभावपक्षे कमो डे परे । अचकमत । अयि चयि नयि पयि मयि रयि वयि गतौ ॥ १३८ ॥ अयते । आयिष्ट ।
1
दयायास्कासः ॥ ३|४|४१॥
एभ्यः परोक्षाया आमादेशः स्यात्, अनुप्रयोगश्च कृभ्वस्तीनाम् । अयाश्चक्रे । हान्तस्थाज्ञीभ्यां वा ॥ २।१।८१ ॥
हकारादन्तस्थाया मेरिटश्च परासां परोक्षायतन्याशिषां धस्य ढो वा स्यात् । अयिषीध्वम् । अयिषीदम् ।
उपसर्गस्यायौ || २|३|१००॥
उपसर्गस्य रेफस्यायतौ परे लः स्यात् । हायते । पलायते । निरयते । दुर