________________
२९०
त्सते चित्तम् । चिकुरुत इत्यर्थः । पनि स्तुतौ ॥ ११३॥ आयप्रत्यये। पनायति । पनायाञ्चकार । पेने। पणिवत् । ग्लैपृङ् दैन्ये च ॥ ११४ ॥ चाञ्चलने । गतावप्यन्ये । जिग्लेपे। मेष रेपृडू लेपूडू गतौ ॥ ११५॥ देशान्तरप्राप्तिहेतुर्गतिः। तत्र स्थितस्य स्पन्दनं चलनमिति पृथगेषां पाठः । हेपृङ् चेति कौशिकः । त्रपौषि लज्जायाम् ॥ ११६ ॥ जपते। तृन्त्रपफलेत्येत्वे । त्रेपे । औदित्वादिड्डा । पिता। प्रसा। गुपि गोपनकुत्सनयोः ॥ ११७ ॥ गोपते । गहींयां सनि जुगुप्सते । अबुङ् रबुङ् शब्दे ॥ ११८ ॥ आनम्बे । रम्बते । लबुङ् अवस्रंसने च ॥ ११९॥ लम्बते । कबृङ् वर्णे ॥१२० ॥ कबते । वर्णों वर्णनं शुक्लादिश्च । क्लीबृङ् अधाष्टये ॥१२१॥ चिलीये । क्षीबृङ् मदे ॥ १२२ ॥ क्षीयते । शीभृङ् चीभृङ् शल्भि कत्थने ॥१२३ ॥ बल्भि भोजने ॥ १२४ ॥ गल्भि धाष्टा ॥ १२५ ॥ गल्भते । रेभृङ् अभुङ् रभु लभुङ् शन्दे ॥ १२६ ॥ष्टभुङ्ग स्कमुष्टुभुङ् स्तम्भे ॥१२७॥ स्तम्भः क्रियानिरोधः। षः स इति सत्वे । स्तम्भते । स्कम्भते । तुष्टुभे । जभुङ् जमै जुभुङ्ग गानविनामे ॥ १२८ ॥ जम्भते ।
जभः स्वरे ॥४॥४॥१०॥ जभेः खरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् । इति ने।जम्भते । जृम्भते। मानि पूजायाम् ॥ १२९ ॥ विचारे मीमांसते । अन्यत्र पनि मानः । तिपृङ ष्टिप्रष्टेपङ्ग क्षरणे ॥१३०॥ तितिपे । तिष्टिपे । तिष्टेपे । तेपृङ्ग कम्पने च ॥१३०॥ दुवेपृङ् केपृङ्गेपृङ् कपुङ चलने ॥ १३१ ।। कम्पते । अकम्पिष्ट । चकम्पे । रभि राभस्ये ॥ १३२ ॥ आरभते । डुलभिष् प्राप्तौ ॥ १३३ ॥ लभते । अलब्ध । लेभे। लप्सीष्ट । लब्धा । लप्स्यते । भामि क्रोधे ॥१३४ ॥ क्षमौ विषहने ॥ १३५॥ अक्षमिष्ट । अक्षस्त । चक्षमिषे । चक्षसे । चक्षमिध्वे । चक्षन्ध्वे ।
मो नो म्वोश्च ॥२॥१॥६७॥ मकारान्तस्य भ्वादेरन्तस्य पदान्ते वर्तमानस्य मकारवकारयोश्च परयोनकारादेशः स्यात् । स चासन् परे कार्ये । चक्षमिवहे । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । आशिषि । क्षमिषीष्ट । क्षेसीष्ट । क्षमिता । क्षन्ता । क्षमिष्यते । क्षस्यते । रमि क्रीडायाम् ।। १३६ ॥ अयं ज्वलादिः । रमते । अरंस्त । रेमे । रंसीष्ट । रन्ता । रंस्यते । अरंस्यत।
व्याङ्परे रमः ॥३॥३।१०५॥ परस्मैपदम् । विरमति । व्यरंसीत् । विरराम । कमूङ कान्तौ ॥ १३७ ॥ कान्तिरिच्छा।
कमेर्णि ॥३॥४॥२॥ कमेर्धातोः खार्थे णिङ् प्रत्ययः स्यात् । कामयते ।