________________
२८९
दाहे ॥ ६७ ॥ बटुङ्ग मडुङ् वेष्टने ॥ ६८॥ विभाजन इत्येके । विभाजनं विभागीकरणम् । चरमाभावश्च । वण्डते । मण्डते । भडुङ् परिभाषणे ॥ ६९ ॥ मुड मन्जने ॥ ७० ॥ मज्जनं शोधनम् । मुण्डते । तुडुङ् तोडने ॥ ७१ ॥ शुडुङ् वरणे ॥७२॥ वरणं स्वीकारः । शुण्डते । चडुङ् कोपे ॥७३ ।। द्राडङ् धाडङ् विशरणे ॥७४ ॥ दद्राडे । दधाडे । शाडू श्लाघायाम् ॥ ७५॥ तालव्यादिः । शशाडे । ऋफिडादित्वात् डस्य लत्वे शालते । वाट्टङ् आप्लाव्ये ॥ ७६॥ वाडते । हेड होट्टङ् अनादरे ।। ७७ ॥ हेडते । होडते । हिडङ्ग गतौ च ॥ ७८ ॥ हिण्डते। घिण घुणङ्घृ ण ग्रहणे ॥ ७९ ॥ घुणि घूर्णि भ्रमणे ॥ ८० ॥ घोणते । जुघूर्णे। पणि व्यवहारस्तुत्योः ॥ ८१॥ गुपौ धूपेत्याये। पणायति । पणायाञ्चकार । पेणे। आयान्तस्य ङिवाभावाच्छेषादिति परस्मैपदम् । यतै प्रयत्ने ॥८२॥ येते। युतृङ् जुतृङ्भासने ॥ ८३ ॥ योतते । जोतते । विशृङ् वशृङ् याचने ॥ ८४॥ नाङ् यात्रोपतापैश्वर्याशीःषु ॥ ८५॥
आशिषि नाथः ॥३॥३॥३६॥ आशिष्येवार्थे नाथतेः कर्तर्यात्मनेपदं स्यात् । सर्पिषो नाथते । सर्पि, भूयादित्याशास्ते । अन्यत्र नाथति । याचत इत्यर्थः । श्रथुङ् शैथिल्ये ॥ ८६ ॥ शैथिल्यमगाढता । ग्रथुङ कौटिल्ये ॥ ८७ ॥ कत्थि श्लाघायाम् ॥ ८८ ॥ चकत्थे । श्विदुङ् श्वेत्ये ॥ ८९ ॥ सकर्मकोऽकर्मकश्च । वदुङ् स्तुत्यभिवादनयोः ॥९॥ वन्दते । भदुङ् सुखकल्याणयोः ॥ ९१ ॥ मदुङ् स्तुतिमोदमदखागतिषु ॥१२॥ अमन्दिष्ट । स्पदुङ् किश्चिञ्चलने ॥ ९३ ।। क्लिदुङ परिदेवने ॥ ९४ ॥ मुदि हर्षे ॥ ९५ ॥ अकर्मकोऽयम् । मोदते । ददि दाने ॥ ९६ ॥ ददते । अददिष्ट । अददि. षाताम् । परोक्षायां दददे । दददाते । हर्दि पुरीषोत्सर्गे ॥ ९७ ॥ हत्ता । ध्वदि खदि खादि आखादने ॥ ९८॥ आद्यः षोपदेशो नेतरौ । यत्स्मृतिः स्वरान्त्यपराः सकारादयः षोपदेशाः स्मिखिदि खदि स्वनि खपयश्च । मृपि मृजि स्तृस्त्या सेकृमृवर्जम् ॥ वदिरनुभवे सकर्मको रुचावकर्मकः । स्वदते । उर्दि मानक्रीडयोश्च ॥ ९९ ॥ भ्वादेरिति दीर्धे । ऊर्दते । कुर्दि गुर्दि गुदि क्रीडायाम् ॥ १०॥ गुर्दि स्थाने ॥१०१॥ खुर्दि मन्थे ॥ १०२॥ कूर्दते । गूदेते । गोदते । जुगुदे । दि क्षरणे ॥ १०३ ॥ सूदते । सुषूदे। हादि शब्दे ॥१०४॥ अव्यक्ते शब्द इत्यन्ये । अव्यक्तोऽपरिस्फुटवर्णः । हादते । हादैङ् सुखे च ॥ १०५॥ लादते । पर्दि कुत्सिते शब्दे ॥ १०६ ॥ पर्दते । स्कुदुङ् आप्रवणे ॥१०७ ॥ आप्रवणमुत्प्लव उद्धरणं च । स्कुन्दते । गाधृङ प्रतिष्ठालिप्साग्रन्थेषु ॥ १०८ ॥ प्रतिष्ठायामकर्मकोsयम् । बाधृङ रोटने ॥१०९ ॥ रोटनं प्रतिघातः। धि धारणे ॥ ११०॥ देधे । नाधृङ् नाथूवत् ॥ १११ ॥ बधि बन्धने ॥ ११२॥ शान्दानिति सनि । बीभ
सेकृसु सस्त सूजू स्तुस्त्यान्ये दन्त्याजन्तसादयः। सैकाचः पोपदेशा वष्य खिद् स्वद् सञ्ज स्वप् सिनः
पं०
.
भ.
मि.
चं.प्र.३७