________________
२८८
लद्धते । लघु भोजननिवृत्तावपि । अघु वधु गत्याक्षेपे ॥२८॥ आक्षेपो वेग आरम्भ उपालम्भो वा । अइते । वङ्घते । मधुङ् कैतवे च ॥ २९ ॥ चाहत्याक्षेपे। राघृङ लाङ् सामर्थ्य ॥ ३०॥ राघते । लाघते । दाङ् आयासे च ॥ ३१॥ आयाम इत्यन्ये । श्लाघृ कत्थने ॥ ३२ ॥ लोचूङ दर्शने ॥ ३३ ॥ लोचते । लुलोचे । षचि सेचने ॥ ३४ ॥ सचते । शचि व्यक्तायां वाचि ॥३५॥ तालव्यादिः । कचि बन्धने ॥ ३६॥ कचुडू दीप्तौ च ॥ ३७ ॥ कचते । कञ्चते । श्चचि श्वचुडू गतौ ॥ ३८ ॥ वर्चि दीप्तौ ॥ ३९॥ मचि मुचुङ् कल्कने ॥ ४०॥ मचुक धारणोच्छ्रायपूजनेषु च ॥ ४१॥ पचुङ् व्यक्तीकरणे ॥ ४२ ॥ ष्टुचि प्रसादे ॥४३॥ स्तोचते । तुष्टुचे । एजृ भ्रेजुङ् भ्राजि दीप्तौ ॥४४॥ एजाचके । विभेजे । बभ्राजे । इजुडूः गतौ ॥ ४५ ॥ इञ्जते । इञाश्चक्रे । ऋजि गतिस्थानार्जनोपार्जनेषु ॥ ४६॥ अर्जते । नोऽन्ते । आजे । ईजि कुत्सने च ॥ ४७ ॥ ईजते । ईजाचके । ऋजुडू भृजै भर्जने ॥४८॥ भर्जनं पाकप्रकारः । ऋञ्जते । भर्जते । तिजि क्षमानिशा. नयोः ॥ ४९ ॥ निशानं तीक्ष्णीकरणम् ।
गुप्तिजो गांक्षान्तौ सन् ॥३॥४॥५॥ खार्थे सन्।
सन्यश्च ॥४॥१॥३॥ सन्नन्तस्य यङन्तस्य च धातोराद्य एकखरावयवो द्विः स्यात् ।
स्वार्थे ॥४॥४॥६०॥ खार्थे सन आदिरिट् न स्यात् ।
उपान्ये ॥४॥३॥३४॥ नामिन्युपान्त्ये धातोरनिट् सन् किद्वत्स्यात् । जुगुप्सत । गर्हत इत्यर्थः । अन्यत्र गोपायति । तितिक्षते । सहत इत्यर्थः । तेजने तु । तेजयति । घहि चलने ॥ ५० ॥ स्फुटि विकसने ॥५१॥ स्फोटते। चेष्टि चेष्टायाम् ॥५२॥ चेष्टते। गोष्टि लोष्टि संघाते ॥ ५३॥ धेष्टि वेष्टने ॥५४॥ विवेष्टे । अहि हिंसातिक्रमयोः ॥५५॥ दोपान्त्यस्तोपान्त्यो वा । अदृते । आन । एठि हेठि विवाधायाम्॥५६॥ एठाञ्चके । जिहेठे । मठु कटु शोके ॥ ५७ ॥ शोकोऽत्राध्यानम् । मण्ठते। कण्ठते । मुठुडू पलायने ॥ ५८ ॥ मुण्ठते । वटुडू एकचर्यायाम् ॥ ५९॥ असहायस्य गत्यामित्यर्थः । बवण्ठे । अटुडू पडुडू गतौ ॥६०॥ आनण्ठे । पण्डते । हुडडू पिडडू संघाते ॥ ६१॥ हुण्डते । पिण्डते । शडुङ् रुजायां च ॥ ६२ ।। चारसंघाते । तालव्यादिः । तुडुङ ताडने ॥ ६३ ।। कडुइ मदे ॥ ६४ ।। कण्डते । खडुङ् मन्थे च ॥ ६५ ॥ चखण्डे । खुडुङ् गतिवैकल्ये ॥ ६६ ॥ खुण्डते। कडुर
१एको दाहधातुः सामर्थ्य परस्त्वायामे । यथा दीक्षितः । राघू ला दाइ सामर्थे । धाधु इत्यपि केचित् । बाघ भायामे च । मायामो देयम्--
पं. च.न.मि.