SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८५. सस्तः सि ||४|३|९२ ॥ सकारान्तस्य धातोरशिति सादौ प्रत्यये परे तकारान्तादेशः स्यात् । चत्स्यति । लिङ्गायभावादाशिष्यप्रयोग इति केचित् । लदिद्युतादिपुष्यादेः परस्मै ||३|४|६४ || लदितस्तथा युतादेः पुष्यादेश्च कर्तर्ययतन्यां परस्मैपदेऽङ् स्यात् । हसे हसने || २७५ ॥ पिस्र पेस्ट वेस्ट गतौ ॥ २७६ ॥ पिपिसतुः । पिपेसतुः । वेसति । शस् हिंसायाम् ॥ २७७ ॥ दन्त्योष्मान्तः । न शसददेत्येत्वं न । शशसतुः । शशसुः । शंसू स्तुतौ च ॥ २७८ ॥ शशंस । आशिषि नलोपः । शस्यात् । मिह सेवने ॥ २७९ ॥ मेढा | मेक्ष्यति । दहं भस्मीकरणे ॥ २८० ॥ दहति । भ्वादेर्दादेर्घ इति हस्य घत्वे | गडदादेरिति दस्य घत्वे । वुद्धौ च । अधाक्षीत् । धुहखादिति सिज्लोपे । अधश्चतुर्थेति तस्य घत्वे । अदाग्धाम् । अधाक्षुः । ददाह । देहतुः । देहुः । दद्यात् । दग्धा । धक्ष्यति । चह कल्कने ॥ २८९ ॥ कल्कनं दम्भः शाठ्यं च । अचहीत् । रह त्यागे || २८२ ।। अरहीत् । रहु गतौ ।। २८३ ।। रंहति । दृहदृहु वृह वृद्धौ ॥ २८४ ॥ दर्हति । दृंहति । वर्हति । वृष्ट वृद्ध शब्दे च ॥ २८५ ॥ अबृहत् । अवहत् । वृंहति । उहु तुदुद्द अर्दने ॥ २८६ ॥ औहत् । औहीत् । उवोह | अतुहत् । अतोहीत् । अदुहत् । अदोहीत् । अर्ह मह पूजायाम् ।। २८७ ।। अर्हति । आहत् । आनई । अर्थात् । अथ क्षान्ता विंशतिः । सेदश्च । वान्तेषु पाठो युक्तो वैचित्र्यार्थं त्विह कृतः । उक्ष सेचने ॥ २८८ ॥ उक्षाञ्चकार । रक्ष पालने ।। २८९ ॥ मक्ष मुक्ष संघाते ॥ २९० ॥ अक्षौ व्याप्तौ च ॥ २९९ ॥ वाक्षः ||३|४|७६ ॥ अक्षतेः नुर्वा शत्रू विषये । अक्ष्णोति । अक्षति । आक्षीत् । आष्टाम् । आक्षिष्टाम् । आनक्ष । अक्षिता । अष्टा । तक्षौ त्वक्षौ तनूकरणे ॥ २९२ ॥ तनूकरणं कार्यम् । तक्षः स्वार्थे वा ॥ ३४॥७७॥ इनुः स्यात् । तक्ष्णोति । तक्षति । इदमेव स्वार्थवचनं ज्ञापकम् । अनेकार्था धातव इति । अन्यत्र सन्तक्षति वाग्भिः शिष्यम् । निर्भयतीत्यर्थः । अतक्षीत् । अताक्षीत् । त्वक्षति । त्वक्षिता । त्वष्टा । णिक्ष चुम्बने ।। २९३ || चुम्बनं वऋसंयोगः । अदुरुपसर्गेति णत्वे । प्रणिक्षति । निक्षिता । तृक्ष सृक्ष णक्ष गतौ ॥ २९४ ॥ वक्ष रोषे ॥ २९५ ॥ संघात इत्येके । त्वक्ष त्वचने ॥ २९६ ॥ त्वचनं त्वग्ग्रहणम् । संवरणं वा । अत्वक्षीत् । सूर्क्ष अनादरे ||२९७|| काक्षु वाक्षु माक्षु काङ्क्षायाम् ।। २९८ ॥ द्राक्षु भ्राक्षु ध्वाक्षु घोरवासिंते च ॥ २९९ ।। द्राङ्क्षति । इतिभ्वादयः परस्मैपदिनः ॥
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy