________________
२८२ भ्रासम्लाशभ्रमकमत्रसित्रुटिलषियसिसंयसेर्वा
॥३॥४॥७३॥ एभ्यः कर्तरि विहिते शिति वा श्यः स्यात् ।
क्रमो दीर्घः परस्मै ॥४॥२॥१०९॥ क्रमधातो र्दीर्घः स्यात्परस्मैपदविषये शित्यऽत्यादौ । काम्यति । पक्षे कामति ।
क्रमः॥४॥४॥५३॥ अस्मात्परस्य स्ताशित आदिरिट् स्यादनात्मनेपदे । मकारान्तत्वान्न वृद्धिः । अक्रमीत्।
कङश्वञ् ॥४॥१४॥ द्वित्वे पूर्वयोः कडोश्चौ स्तः। चक्राम । चक्रमतुः । ऋमिता । क्रमिष्यति । चमूछमूजमूझमूजिमू अदने ॥ २०२॥
ष्ठिवूक्लम्वाचमः ॥४।२।११०॥ ष्टिः क्लमेराडपूर्वाचमेश्च शिति दीर्ध: स्यात. अत्यादौ तिवादिशेदनन्तरो न स्यात् । ष्ठीवति । लाम्यति । कामति । आचामति । अम द्रम हम्म मीम गती ॥ २०३ ॥ अमोऽर्थभेदार्थ पुनः पाठः। द्रमति । अद्रमीत् । दाम । हम्मति । अहम्मीत् । जहम्म । मीमति । अमीमीत् । मिमीम । हय हयं क्लान्तौ च॥२०४॥ चाद्गत्याम् । अहयात् । मव्य बन्धने ॥२०॥ मव्यति । सूयं ईईj ईर्ष्यार्थाः ॥ २०६ ॥ सुसूय । दन्त्यादित्वान्न षत्वम् । ईक्ष्यति । ईय॑ति । श्रुच्यै चुच्यै अभिषवे ॥२०७।। द्रवेणाद्रवाणां परिवासनमभिषवः । नानमित्यन्ये । शुश्रुच्य । त्सर च्छद्मगतौ ।। २०८ ॥ अत्सारीत् । तत्सार । क्मर टूर्छने ॥ २०९॥ अभ्र वन मन गतौ ॥ २१० ॥ आनन । चर भक्षणे च ॥ २११॥ चरति । धोक्र गतेश्चातुर्ये ॥ २१२ ॥ ऋदित् । धोरति । खो प्रतिघाते ॥२१॥ गतेरित्यनुवर्तते । चुःखोर । दल त्रिफला विशरणे ॥ २१४ ॥ अफालीत् । पफाल । फेलतुः । मील इमील मील क्ष्मील निमेषणे ॥ २१५ ॥ निमेषणं सङ्कोचः । पील प्रतिष्टम्भे ।। २१६ ॥ प्रतिष्टम्भो रोपणम् । णील वर्णे ॥ २१७॥ वर्णोपलक्षितायां क्रियायामित्यर्थः । शील समाधौ ॥ २१८ ॥ समाधिरैकान्त्यम् । कील बन्धे ॥ २१९ ॥ कूल वरणे ।। २२० ।। शूल रुजायाम् ॥ २२१ ॥ तूल निष्कर्षे ।। २२२ ॥ निष्कर्षोऽन्तस्थस्य
नाम्यन्तस्थाकवर्गारपदान्तः कृतस्य सः शिइनान्तरेऽपि (२०१५) अत्र सूत्रे कृतस्येति पाठादिह च सकारस्पाकृतस्वास षस्वम् । तिमिरित्यादौ प्रापि पस्के विधानसलाच भवति ५० वर्षानन्दमिश्रः