________________
२७८
अतति । आतीत् । आतिष्टाम् । आतिषुः । व्यञ्जनादेरिति किम् ? । मा भवानतीत् । चितै संज्ञाने ॥ १४३ ॥ चेतति । अचेतीत् । अचेतिष्टाम् । अचेतिषुः। च्युत आसेचने ॥ १४४ ॥ आसेचनमार्दीकरणम् । च्योतति । ऋदित्वाद्वा। अच्युतत् । अच्योतीत् । चुतृ श्रुतृ भ्युत क्षरणे ॥ १४५ ॥ श्योतति । श्योतेत् । श्योततु । अभ्योतत् । अश्योतीत् । जुतृ भासने ॥ १४६ ॥ अतु बन्धने ॥ १४७॥ अन्तति । कित निवासे रोगापनयने संशये च ॥ १४८ ॥ केतति ।
कितः संशयप्रतिकारे ॥३॥४॥६॥ सन् स्यात् । विचिकित्सति । संशेते इत्यर्थः । व्याधि चिकित्सति । प्रतिकरोतीत्यर्थः । अन्यत्र चुरादिपाठात् केतयति । पत्ल पथे च गतौ ॥१४९॥ पतति ।
श्वयत्यस्वचपतःश्वास्थवोचपप्तम् ॥४॥३॥१०३॥
इति पप्तादेशे अपप्सत् । पपात । पेततुः । पेतुः। पथति । अपथीत । एतौ ज्वलादी । कुथु पुथु लुथु मथु मन्थ मान्थ हिंसासंक्लेशनयोः ॥ १५० ॥ उदित्वामलोपाभावः । कुन्थ्यात् । मन्थ्यात् । मथ्यात् । अर्द गतियाचनयोः॥ १५१॥ आनद । न णर्द गर्द शब्दे ।। १५२॥ णोपदेशाभावान्न णत्वम् । प्रनर्दति । णोपदेशेऽपि प्रणर्दति । तद हिंसायाम् ॥ १५३ ॥ कर्द कुत्सिते शब्दे ॥ १५४ ॥ कुत्सिते कोक्ष इत्यर्थः । खर्द दशने ॥ १५५ ॥ अदु बन्धने ।। १५६ ।। इदु परमैश्वर्ये ॥ १५७ ॥ इन्दति । इन्दाञ्चकार । बिदु अवयवे ॥ १५८ ॥ पवर्गतृतीयादिः। विन्दति । अवयवं करोतीत्यर्थः । णिदु' कुत्सायाम् ॥ १५९॥ खादृ भक्षणे॥१६०॥ झकार इत् । खादति । अखादत् । अखादीत् । खद स्थैर्ये हिंसायां च ॥ १६१ ॥ स्थैर्येऽकर्मकः । खदति । व्यञ्जनादेरिति वृद्धौ । अखादीत् । अखदीत् । चखाद । बद स्थैर्ये ॥ १६२ ॥ पवगेतृतीयादिः । बदति । अबादीत् । अषदीत् । बबाद । बेदतुः। येदुः । बेदिथ । गद व्यक्तायां वाचि ॥ १६३ ॥ गदति । अगादीत् । अग. दीत् । अगादिष्टाम् । अगदिष्टाम् । जगाद् ।। नेर्मादापतपदगदनदवपीवहीशमूचिग्यातिवाति. द्रातिप्सातिस्यतिहन्तिदेग्धौ ॥२॥३॥७९॥
अदुरुपसर्गान्तस्थानश्वर्णात्परस्य नेरुपसर्गस्य मादादिषु धातुषु परेषु णः स्यात् । डकारयोगान्मा डोर्माशब्देन ग्रहः । मातिमिनोतिमीनोतीनां न । दा इति दासंज्ञाग्रहणम् । प्रणिगदति । रद विलेखने ॥ १६४ ॥ भेदने इत्यर्थः । णद. मिश्विदा अव्यक्ते शब्दे ॥ १६५ ।।
. पाठे धात्वादेो नः ॥२॥३९७॥
पाठविषये धास्वादेर्णस्य नः स्यात् । तिनर्दिनन्दिनाटिनकिनाचनानुवर्ज णोपदेशाः । नाटीति नटण् अवस्यन्दने इति चुरादेवर्जनम् । भौवादिकस्य तु