________________
२७६
T
हिंसायाम् ॥ ७७ ॥ तोजति । अतोजीत् । तुजु चलने च ॥ ७८ ॥ तुञ्जति । गर्ज गजु गृज गृजु मुज मुजु सृज मृजु शब्दे ॥ ७९ ॥ जगर्ज । जगर्जतुः । जगर्ज । जगृजतुः । गज मदने च ॥ ८० ॥ चाच्छब्दे । मदनं मदोत्पत्तिः । गजति । व्यञ्जनादेवपान्त्यस्यात इति वा वृद्धौ अगाजीत् । अगजीत् । त्यजं हानौ ॥ ८१ ॥ त्यजति । व्यञ्जनानामनिटि || ४|३|४५ ॥
इति वृद्धौ । अत्याक्षीत् । धुड्हखादिति सिज्लुकि । अत्याक्ताम् । अत्याक्षुः । तत्याज । पत्रं सङ्के ॥ ८२ ॥
दंशसःश
॥ ४२४९ ॥
इति नलोपे । सजति । रञ्जीं रागे ॥ ८३ ॥
अकदघिनोश्च रजेः ॥४२॥५०॥
रञ्जरकटि घिणि शवि चोपान्त्यस्य नस्य लुक् । रजति । खञ्जरपि केचित् । खजते ।
स्वअव || २२|४५॥
उपसर्गस्थान्निमित्तादस्य सस्य षत्वम् । परिष्वजते । द्वित्वे त्वादेरेव । परिबखजे । अथ टवर्गान्ताः । शौड़ गर्ने इत्यपि कचित् पाठः । शौह गर्ने । शौटति । शुशौट | यौह बन्धे । यौति । म्लेट स्लेड उन्मादे । द्वितीयो डान्तः । म्लेटति म्लेडति । कटे वर्षावरणयोः । चकाद ॥ ८४ ॥ सिचि ।
1
न
विजागृशसक्षणयेदितः || ४ | ३ | ४९ ॥
त्र्यांदेर्हकार मकारयकारान्तानामेदितां च धातूनां परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अकटीत् । शट रुजाविशरणगत्यवसादनेषु ॥ ८५ ॥ शदति । किट खि त्रासे ॥ ८६ ॥ शिट षिट अनादरे || ८७ || शेदति । सेटति । जटलट संघाते ॥ ८८ ॥ पिट शब्दे च ॥ ८९ ॥ पेटति । भट भृतौ ॥ ९० ॥ तट उच्छ्राये ॥ ९१ ॥ खट काङ्क्षे ॥ ९२ ॥ पट नृत्तौ ॥ ९३ ॥ पाठे धात्वादेर्णो नः । नदति । नोपदेशोऽयमित्येके । प्रनदति हट दीसौ ॥ ९४ ॥ षद अवयवे ॥ ९५ ॥ चिट परप्रेष्ये ॥ ९६ ॥ चेटति । विट शब्दे ॥ ९७ ॥ हेट विबाधायाम् ॥ ९८ ॥ जिहेट | डान्तोऽयमित्येके | अट पट इट किट कट कटु कठै गतौ ।। ९९ ॥
1
अस्यादेशः परोक्षायाम् ||४|१|६८ ॥
धातोर्द्वित्वे सति पूर्वस्यादेरकारस्याकारः स्यात् । आट । आटतुः । आहुः ।
पदति ।
व्यञ्जनादेवपान्त्यस्यातः ॥४|३|४७॥
व्यञ्जनादेर्धातोरुपान्त्यस्याकारस्य सेटि सिचि परस्मैपदे परे वा वृद्धिः स्वात् । अपाटीत् । अपटीत् ।