SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ लुप् । अदात् । ददौ । गापास्थेत्येकारे देयात् । दाता । दास्यति । अदास्यत् । जिं जिं अभिभवे ॥ ८॥ जयति । जयेत् । जयतु । जयतात् । अजयत् । सिचि परस्मै समानस्याङिति ॥४॥३॥४४॥ समानान्तस्य धातोः परस्मैपदविषये सिचि, अङिति वृद्धिः स्यात् । अजैषीत् । अडितीति किम् ? धूधातोः कुटादित्वान्ङित्वेन अधुवीत् । नात्र वृद्धिः। अजैष्टाम् । अजैघुः । अजैषीः । अजैष्टम् । अजैष्ट । अजैषम् । अजैष्व । अजैष्म । जेर्गिः सन्परोक्षयोः ॥४॥३५॥ सनि परे परोक्षायां च परस्यां द्वित्वे सति पूर्वात्परस्य जेर्गिः स्यात् । नामिनोऽकलिहलेः ॥४॥३॥५१॥ नाम्यन्तस्य धातोर्नान्नोवा कलिहलिवय॑स्य भिति णिति च वृद्धिः स्यात् । जिगाय । योऽनेकवरस्य । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिग्यथुः । जिग्य। णिद्वान्त्यो णव् ॥४॥३॥५८॥ परोक्षायामन्त्यो णव वा णित्स्यात्। जिगय जिगाय । जिग्यिव । जिग्यिम । दीर्घश्वियङ्यक्येषु च ॥४॥३॥१०८॥ च्चौ यङि यकिक्ये च गकारादावाशिषि च परतोऽन्त्यस्वरस्य दीर्घः स्यात् । जीयात् । जीयास्ताम् । जीयासुः । जेता। जेष्यति । अजेष्यत् । एतावभिभवे न्यूनीकरणे न्यूनीभवने वा । प्रथमे सकर्मकः । अरीञ्जयति । द्वितीये सकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । परावेजेंः ॥३॥३॥२८॥ आत्मनेपदं कर्तरि । विजयते । किं क्षये ॥९॥ अकर्मकः । अन्तर्भावितण्यर्थत्वे सकर्मकः । क्षयति । अझैषीत् । चिक्षाय । चिक्षियतुः । चिक्षियुः। चिक्षयिथ । चिक्षेथ । क्षीयात् । शेषं जिवत् । इंदु टुं शृं मु गती ॥१०॥ अयति । अयेत् । अयतु । आयत् । आयताम् । आयन् । ऐषीत् । ऐष्टाम् । ऐषुः । इयाय । इयतुः । इयुः । योऽनेकखरस्येति द्वित्वे सति यत्वम् । द्रवति । अद्यतन्याम् । णिश्रिद्रुसुकमः कर्तरि ङः ॥ ३॥४॥५८॥ इति वक्ष्यमाणविधिना अदुद्रुवत् । दुद्राव । दुद्रुवतुः। दुद्रुवुः । थवि दुवर्जनाट् । दुद्रोथ । द्रूयात् । द्रोता। दुधातोस्तु दुदविथ । दुदोध । स्रवति । शुश्राव ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy