SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७१ शुश्रुवतुः । शुश्रोथ । श्रूयात् । श्रोता । स्रुधातोः स्रवति । णिश्रीति ङे असुस्रुवत् । सुप्रसवैश्वर्ययोः ॥ ११ ॥ प्रसवोऽभ्यनुज्ञानम् । सवति ४ । धूग्सुस्तोः परस्मै ॥४|४|८५ ॥ एभ्यः परस्मैपदे सिच आदिरिट् स्यात् । इत्यत्रग्रहणे असावीत् । पक्षे असौषीत् । अषोपदेशत्वान्न षत्वम् । सुसाव । सुसोध । सुसविथ । षोपदेशोऽयं दीक्षितमते । सूयात् । सोता । सोष्यति । धुं स्थैर्येच ॥ १२ ॥ चागतौ । ध्रुवति ४ । दीक्षितमतेऽयं कुदादौ गत्यर्थः । ध्रुवति । स्मं चिन्तायाम् ॥ १३ ॥ स्मरति ४ । अस्मात् । अस्माष्टम् । अस्मार्षुः । स्मृ स्मृ इति द्वित्वे सति । ऋतोऽत् ||४|१|३८॥ द्वित्वे सति पूर्वस्य ऋतोऽत्स्यात् । सस्मार । संयोगादः || ४ | ३|९॥ संयोगात्परोयऋत्तदन्तस्यार्तश्चक्क सुकानवर्ज्य परोक्षायां गुणः स्यात् । सस्म रतुः । सस्मरुः । ऋतः || ४|४|७९ ॥ ऋकारान्ताद्धातोस्तुचि नित्यानिटो विहितस्य थव आदिरिण्न न स्यात् । सस्मर्थ । सस्मरधुः । सस्मर । सस्मार । सस्मरिव । सस्मरिम | क्यङाशीयें ||४|३|१०॥ संयोगात्परो यऋत्तदन्तस्यार्तेश्व कायङाशीर्ये गुणः स्यात् । स्मर्यात् । स्मर्यास्ताम् । स्मर्घासुः । स्मर्ता । हनृतः स्यस्य ॥४४॥४९॥ हन्तेः ऋदन्ताश्च परस्य स्यस्यादिरिद् स्यात् । स्मरिष्यति । अस्मरिष्यत् । हूं कौटिल्ये॥१४॥ ह्ररति । अह्नार्षीत् । जहार । जह्वरतुः । जह्वर्थ । ह्वर्यात् । औवृशदोपतापयोः ॥ १५ ॥ खरति ४ । अखारीत् । अखारिष्टाम् । पक्षे अस्वार्षीत् । अस्वाष्टम् । सवार | सखरिध । तृचि नित्यानित्वाभावान्न विकल्पः । सखर्थेत्यपि दीक्षितः । सखरिव । सखरिम । स्वर्यात् । औदित्वात् । स्वर्ता । खरिता । स्वरिष्यति । अखरिष्यत् । हनृतः स्यस्येतिपरत्वान्नित्यमिद । तृ प्लवनतरणयोः ॥ १६ ॥ तरति ४ । अतारीत् । अतारिष्टाम् । अतारिषुः । ततार 1 स्कृच्छ्रतोऽकि परोक्षायाम् || ४ | ३ |८|| सटा सहितस्य कृऋच्छेस्तथा ऋदन्तानां च परोक्षायां गुणः स्यात् । कोपलक्षितपरोक्षायां न गुणः । तर् इति जाते ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy