SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ इट ईति ॥४३७१॥ इटः परस्य सिचाईति परे लुक्स्यात् । अघ्रासीत् । अघ्राताम् । अघ्रासिष्टाम् । अघुः । अघासिषुः । अघाः । अघासीः। अघ्रातम् । अघासिष्ठम् । अघ्रात । अघ्रासिष्ट । अघाम् । अघासिषम् । अघाव । अघ्रासिष्व । अघाम । अघासिष्म । परोक्षायां प्राति द्वित्वे ।। व्यञ्जनस्यानादेलक ॥४॥४४॥ द्वित्वे पूर्वस्यानादेर्व्यञ्जनस्य लुक्स्यात् । द्वितीय तुर्ययोरिति घस्य गत्वे । गहोर्जः ॥४॥१४॥ द्वित्वे पूर्वयोगहोर्जः स्यात् । जघौ । जघ्रतुः। जनुः। जनिथ। जनाथ । जघ्रथुः । जघ्र । जघौ । जघ्रिव । जघ्रिम । संयोगादेर्वाशिष्यः ॥४॥३९५॥ ___ संयोगादेरादन्तस्य कित्याशिष्येर्वा स्यात् । घेयात् । प्रायात् । धेयास्ताम् । घ्रायास्ताम् । श्रेयासुः। प्रायासुः । प्राता। घास्यति । अघास्यत् । ध्मां शब्दाग्निसंयोगयोः ॥४॥ धमति । ४। अध्मासीत् । दध्मौ । ध्मायात् । ध्मेयात् । ध्माता । ध्मास्यति । अध्मास्यत् । ष्ठां गतिनिवृत्तौ ॥५॥ षः सोऽष्ट्यैष्ठिवष्वष्कः ॥२॥३॥९८॥ पाठे धात्वादेः षः सः स्यानतु ट्यैष्टिवष्वष्काम् । स्वरदन्त्यपरसकारादयः मिखिदिखदिखचिखपयश्च । षोपदेशाः स्मृपिसृजिस्त्यास्तृससेकृवर्जम् ॥१॥ निमित्ताभावे नैमित्तिकस्याप्यभाव इति ठस्य थत्वे स्था धातुः । तिष्ठति ४। अस्थात् । अस्थाताम् । अस्थुः। अघोषे शिटः ॥४॥१॥४५॥ द्वित्वे पूर्वस्य शिटस्तस्मिन्नेवाघोषे लुक् स्यात् । तस्थौ । तस्थतुः । तस्थुः । तस्थिथ । तस्थाथ। स्थासेनिसिधसिचसञ्जां द्वित्त्वेऽपि ॥२॥३॥४०॥ उपसर्गस्थानाम्यन्तस्थात्कवर्गाच परस्यैषामव्यवधानेऽपि सस्य षः स्यात् द्वित्वेऽपि । अधितष्ठौ । स्थयात् । स्थाता । स्थास्यति । अस्थास्यत् । नां अभ्यासे ॥६॥ मनति ४ । अनासीत् । मन्नौ । नेयात् । नायात् । नाता। नास्यति । अन्नास्यत् । दां दाने ॥७॥ यच्छति ४। सिचो दासंज्ञवात् पिबैतीत्यादिना
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy