SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६८ इडेत्पुसि चातो लुक् ॥ ४ | ३ |९४ ॥ कित्यशिति खरे, इटि, एतिपुसि च परे आदन्तस्य धातोर्लुक् स्यात् । अपुः । अपाः । अपातम् । अपात । अपाम् । अपाव । अपाम । ह्रस्वः ॥४|१|३९॥ द्वित्वे सति पूर्वस्य खः स्यात् । आतो णव औः ॥४२॥१२०॥ आतः परस्य णव औः स्यात् । पपौ । इन्ध्यसंयोगात्परोक्षाविद्वत् ||४|३|२१|| इन्धेर्धातोरसंयोगाच्च पराऽवित्परोक्षा विद्वत्स्यादिति कित्त्वादिडेत्पुसीत्यातो लुक् । पपतुः । पपुः । सृजिदृशिस्कृस्वराऽत्वतस्तृनित्यानिटस्थवः ४ ४ ७८ शिभ्यां तथा स्ट्युक्तमृगो धातोस्तथा खरान्तादकारोपान्त्यात्तृचि नित्यानिटो विहितस्य थव आदिरिड्डा स्यात् । पपिथ । पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । गापास्थासादामाहाकः || ४|३|९६ ॥ एषां कित्याशिष्येः स्यात् । पेयात् । पेयास्ताम् । पेयासुः । पेयाः । पेयास्तम् । पेयास्त । पेयासम् । पेयाख । पेयास्म । I एकस्वरादनुस्वारेतः ॥४|४|५६॥ एकस्वरादनुखारेतो धातोः स्ताद्यशित आदिरिण्न स्यात् । पाता । पातारौ । पातारः । पास्यति । पास्यतः । पास्यन्ति । अपास्यत् । अपास्यताम् । अपास्यन् । घां गन्धोपादाने || ३ || जिघ्रति । जिघेत् । जिघ्रतु । जिघ्रतात् । अजिघत् । वेशाच्छासो वा ॥४३॥६७॥ सोऽन्तः । एभ्यः परस्य सिचः परस्मैपदे लुप् वा स्यात् । अधात् । पक्षे | सः सिजस्तेर्दिस्योः ॥४३॥६५॥ सिजन्ताद्धातोरस्तेश्च परयोर्दिस्योरादिरीत् स्यात् । यमिरमिनम्यातः सोऽन्तश्च ॥ ४|४|८६ ॥ एभ्यस्तथाऽऽकारान्तेभ्यश्च परस्मैपदे परे सिच आदिरिट् स्यात् एषां च
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy