________________
२६७
सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः ॥५॥४॥९॥
ससम्याअर्थो निमित्तं हेतुफलकथनादिका सामग्री कुतश्चिद्वैगुण्याक्रियाया अनभिनिवृत्तौ सत्यां भविष्यदर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिर्विभक्तिः स्यात् । सुवृष्टिश्चेदभविष्यत् सुभिक्षमभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः। अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम । एवं दशापि विभक्तयः।
अदुरुपसर्गान्तरो णहिनुमीनानेः ॥२।३२७७॥
दुर्वोपसर्गस्थादन्तः शब्दस्थाच रवर्णात्परस्य गहिनुमीनानिसम्बन्धिनो नकारस्य गत्वं स्यात् । णेति णोपदेशधातुग्रहणम् । उपसर्गाण्णत्वविधानात् । प्रभवाणि । दुर्वर्जनाहुर्भवानि । अन्तर्भवाणि।
__ अकखाद्यपान्ते पाठे वा ॥२॥३॥८॥
पाठे धातूपदेशे कादिःखादिर्वा षकारान्तश्च यो धातुस्तदन्यस्मिन् धातौ परे अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात्परस्य ने नेस्य णत्वं वा स्यात्।प्रणिभवति। प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम्-संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ भूसत्तायामिति सत्ताद्यर्थोऽत्रोपलक्षणम् । मृदो घटो भवति इत्यादावुत्पद्यते इत्याद्यर्थात् । उपसर्गा अतएवार्थविशेषद्योतकाः । प्रभवति । पराभवति । सम्भवति । अनुभवति । अभिभवतीत्यादौ विविधार्थावगतः । उक्तं च, उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥१॥ पां पाने ॥२॥ अनुसार एकखरादनुखारेत इतीनिषेधार्थः।
श्रौतिकृयुधिवुपाघ्राध्मास्थाम्नादाम्दृश्यर्तिशदसदः शृकृधिपिबजिघ्रधमतिष्ठमनयच्छश्पयझेशीयसीदम्
॥४।२।१०८॥ शृणोत्यादीनां शिति परे श्रादयः क्रमात् स्युः । पिबेत्यदन्तस्वान्न शवि गुणः। पिबति । पिबतः। पिबन्ति । पिबेत्। पिबेताम् । पिषेयुः। पियतु । पिवतात् । पिबताम् । पिबन्तु । अपिबत् । अपिवताम् । अपिबन्। पिबैतिदाभ्वितिसिज्लोपे अपात् । अपाताम् ।
सिज्विदोऽभुवः ॥४।२।९२॥ सिच्प्रत्ययान्ताद्विदश्च धातोः परस्यानः पुसू स्यात् । पकार इत् ।