SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६६ माझ्यद्यतनी ||५|४|३९॥ मायुपपदे धातोरद्यतन्येव स्यात् । मा भूत् । सस्मे ह्यस्तनी च ॥५४॥४०॥ स्मसहिते माङ्युपपदे ह्यस्तनी, अद्यतनी च स्यात् । मा स्म भवत् । मा स्म भूत् । अयदि स्मृत्यर्थे भविष्यन्ती ||५|२| ९ || स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थे भविष्यन्ती स्यात् नतु यच्छब्देन योगे । समरसि साधो सिद्धाद्रिं यास्यावः । यच्छब्दयोगे तु स्मरसि मित्र यत्तत्र तपखिनोऽभवाम | धातोः सम्बन्धे प्रत्ययाः || ५|४ |४१ ॥ धात्वर्थानां विशेषणविशेष्यभावे सति, अयथाकालमपि प्रत्ययाः स्युः । विश्वश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । प्रचये नवा सामान्यार्थस्य || ५|४|४३|| भृशाभीक्ष्ण्ये यथाविधीति च नानुवर्तेते । प्रचये धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः परौ हिस्खौ तध्वमौ तद्युष्मदि वा स्याताम् । व्रीहीन वप लुनीहि पुनीहि इत्येवं यत्यते यतते वा । पक्षे वपति लुनाति पुनाति इत्येवं यत्यते चैत्रेण । यतते चैत्रः । सूत्रमधीष्व । निर्युक्तिमधीष्व । भाष्यमधीष्वेत्येवाधीते पक्षे सूत्रमधीते । निर्युक्तिमधीते । भाष्यमधीते इत्येवमधीते । एवं तध्वमोरप्युदाहरणीयानि । भृशाभीक्ष्ये हिवौ यथाविधि तध्वमौ च तद्युष्मदि ||५|४|४२ ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्यं फलातिरेको वा भृशत्वम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौनःपुन्यमा भीक्ष्ण्यम् । सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिवचनविषये हिखौ स्तः, यतो धातोर्यत्र च कारके हिखौ विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यानुप्रयोगे सति । तथा तवमौ हिखौ च बहुत्वविशिष्टे तध्वंसम्बन्धिनि युष्मद्यभिधेये भवतो यथाविधि धातोरनुप्रयोगे । लुनीहि लुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवायमधीते । लुनीत लुनीत इत्येव यूयं लुनीथ । लुनीहि लुनीहि वा । अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेति वा ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy