SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६५ स्क्रसृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः॥४।४८१॥ स्कृगस्तथा सर्वधातुभ्यः परस्य व्यञ्जनादेः परोक्षाया आदिरिट् स्यात् । स भृ वृ स्तु दु श्रु सु एतान् वजेंयित्वा । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम। कृतास्मरणातिनिह्नवे परोक्षा ॥५॥२॥११॥ कृतस्य व्यापारस्यास्मरणे तथाऽपलापेऽपरोक्षेऽपि भूतानयतनेऽर्थे धातोः परोक्षा स्यात् । सुसोऽहं किल विचचार । नाहं कलिङ्गान् जगाम । आशिष्याशीःपञ्चम्यौ ॥५॥४॥३८॥ परस्पेष्टार्थशंसनमाशीः । तदर्थे धातोराशीः पञ्चमी च विभक्तिर्भवति । भूक्यात् इति स्थिते । ककारो गुणनिषेधार्थः । भूयात्कल्याणं विजयप्रभसूरिभ्यः। भूयास्ताम् । भूयासुः। भूयाः। भूयास्तम्। भूयास्त । भूयासम्।भूयाख । भूयास। अनद्यतने श्वस्तनी ॥५॥३॥५॥ अनद्यतनभविष्यत्यर्थे धातोः श्वस्तनी स्यात् । भू ता इतिस्थिते । स्ताद्यशितोऽत्रोणादेरिट् ॥४॥४॥३२॥ धातोः परस्य सकारादेस्तकारादेश्वाशितः प्रत्ययस्यादिरिद् स्यात् नतु अप्रत्यय उणादिषु च । भविता श्वः पूजोत्सवः। भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भविताखः । भवितामः । भविष्यन्ती ॥५॥३॥४॥ सामान्यतो भविष्यदर्थाद्धातोर्भविष्यन्ती स्यात् । सादित्वादिटि । भविव्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः। पुरायावतो वर्तमाना ॥५॥३॥७॥ अनयोरुपपदयोर्भविष्यदर्थाद्धातोर्वर्तमाना स्यात् । पुराभवति । याववति । भविष्यतीत्यर्थः। कदाकोर्नवा ॥५॥३॥८॥ कदा भवति । कदा भविष्यति । एवं कहियोगे । कर्हि भवति । कर्हि भविष्यति। चं.प्र.३४
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy