SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २६४ अद्यतनी ॥५॥२॥४॥ भूतेऽर्थे धातोरद्यतनी स्यात् ।। सिजद्यतन्याम् ॥३॥४॥५३॥ अद्यतन्यां परस्यां धातोः परः सिच् प्रत्ययः स्यात् । इकार उच्चारणार्थः। चकारो विशेषणार्थः। पिवैतिदाभूस्थःसिचोलुप्परस्मै न चेट् ॥४॥३॥१६॥ एभ्यः परस्य सिंचः परस्मैपदे लुप्स्यात् । लुप्सन्नियोगे चैतेभ्यो नेट् स्यात् । भवतेः सिज्लुपि ॥४॥३॥१२॥ सिचो लुपि भवतेन गुणः। ___अवौदाधौ दा ॥३३॥५॥ . दा धा इत्येवं रूपौ धातू दासंज्ञौ स्तः । दाक् लवने ॥ दातं बर्हिः । दैव शोधने ॥ अवदातं मुखम् । एतौ वितौ धातू त्यक्त्वा । अडागमेऽद्यतन्यां भूधातोः। अभूत् । अभूताम् । अभू स् अन् इतिस्थिते सिज्लोपे धातोरिवर्णोवर्णस्येत्युवादेशे। भुवोव परोक्षाद्यतन्योः ॥४२॥४३॥ __ अनयोः परतो वान्तस्य भुयं उपान्त्यस्योत्स्यात् । अभूवन् । अभूः। अभूतम् । अभूत । अभूवम् । अभूव । अभूम। परोक्षे ॥५॥२॥१२॥ भूतानयतने परोक्षेऽर्थे धातोः परोक्षा स्यात् । भू णव् इति स्थिते । णकारो वृद्ध्यर्थः । द्विर्धातुःपरोक्षा प्राक्तस्वरे स्वरविधेः ॥४॥॥१॥ परोक्षायां उ च प्रत्यये परे धातुर्द्विः स्यात् , स्वरादौ तु द्विस्वनिमित्ते खरस्य कार्यात्प्रागेव द्वित्वं स्यात् । तेन निनायेत्यादी वृद्धः प्रागेव द्वित्वम् । भूस्खपोरदुतौ ॥४॥११७०॥ भूस्खपोः परोक्षायां द्वित्वे सति पूर्वस्य क्रमात् अत् उच्च स्यात् । द्वितीयतुर्ययोः पूर्वी ॥४॥॥४२॥ द्वित्वे पूर्वयोर्द्वितीयतुर्ययोः क्रमादाद्यतृतीयौ स्याताम् । वादेशे भुवोव इत्यूत्वे च बभूव श्रीवीरः । बभूवतुः । बभूवुः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy