________________
२६३
याम्युसोरियमियुसौ ॥४॥२।१२३॥ अकारात्परयोरनयोरेतायादेशौ स्तः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ।
प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ ॥५॥४॥२९॥ न्यक्कारपूर्विका प्रेरणा प्रेषः । अनुज्ञा कामचारानुमतिः । अवसरः प्राप्तकालता। एतदर्थत्रये पञ्चमीकृदन्तकृत्यप्रत्ययाश्च । कटं करोतु भवानिति, प्रागुक्त विध्यादिष्वपि पञ्चमी । द्विसन्ध्यमावश्यकं करोतु भवान् । अध्ययनायोचतो भवतु चैत्रः। आशिष्यपि पञ्चमी ।
आशिषि तुह्योस्तातङ्॥४।२।११९॥ स्पष्टम् । आयुष्मान् भवतु भवान् । भवताद्वा । भवताम् । भवन्तु ।
अतःप्रत्ययाल्लुक॥४॥२॥८५॥ धातोः परस्यादन्तप्रत्ययस्य योऽकारस्तस्मात्परस्य हेर्लक स्यात् । भव । भव. ताद्वा । भवतम् । भवत । भवानि । भवाव । भवाम ।
अनद्यतने ह्यस्तनी ॥५॥२॥७॥ आन्याय्यादुत्थानादान्याय्याच संवेशनादहरुभयतः सार्धरात्रं वाऽद्यतनकालस्तस्मिन् सति भूतेऽर्थे वर्तमानाद्धातोयस्तनी स्यात् ।
ख्याते दृश्ये ॥५॥२॥८॥ लोकविज्ञाते दृश्ये प्रयोक्तुः शक्यदर्शने भूतानद्यतनेऽर्थे धातोर्चस्तनी स्यात् । अरुणसिद्धराजोऽवन्तीम् । परोक्षापवादः । ख्यात इति किम् ? चकार कटं चैत्रः । दृश्य इति किम् ? जघान कंसं किल वासुदेवः ।
अड्धातोरादिर्हास्तन्यांचामाङा ॥४॥४॥२९॥
यस्तन्यामद्यतनीक्रियातिपत्योश्च विषये धातोरादिरवयवोऽट् स्यात् न तु मायोगे । अभवत् । अभवद् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम । ह्योऽभवजिनाम् ।
अविवक्षिते ॥५॥२॥१४॥ परोक्षस्वेनाविवक्षिते भूतानद्यतने यस्तनी स्यात् । अभयद्वीरोऽर्हन् ।
स्मेच वर्तमाना ॥५॥२॥१६॥ भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् । शिव्यास्तव भवन्ति स्म । पुरा भवति ते पदम् । अभवदित्यर्थः।