SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २६२ एकद्विबहुषु ॥३३॥१८॥ अन्यादिषु यानि त्रीणि त्रीणि वचनान्युक्तानि तानि एकद्विबहुष्वर्थेषु परिभाष्यन्ते । आख्यातवाच्यकारकवाचिनि युष्मदर्थे युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने वा मध्यमप्रत्ययत्रिकम् । अस्मदर्थे प्रयुज्यमानेऽप्रयुज्यमाने परस्मैपदे वाऽऽत्मनेपदे वाऽन्त्यप्रत्ययत्रयं प्रयोज्यम् । शेषे प्रथमत्रिकम् । भूसत्तायाम् ॥ अस्माद्धातोः कर्तरि विवक्षिते भू तिव् इतिस्थिते वकारो वित्कार्यार्थः । कर्तर्यनद्भयःशव ॥३२४७१॥ अदादिवर्जधातोः कर्तरि विहिते शिति शव् प्रत्ययः स्यात् । शकारवकारी कार्याथीं। नामिनो गुणोऽक्विति ॥४॥३॥१॥ नाम्यन्तस्य धातोः कित् डिद्वर्जिते प्रत्यये परे आसन्नो गुणः स्यात् । अवादेशः। भवति । भवतः। शिदवित् ॥४॥३॥२०॥ विदर्जः शित् द्वित्स्यात् । इति तसि गुणाप्राप्तावपि शनिमित्तो गुणः । लुगस्यादेत्यपदे इत्यकारलुकि, भवन्ति । भवसि । भवथः । भवथ । मव्यस्याः ॥४॥२॥११३॥ धातोर्विहिते मादौ वादौ च प्रत्ययेपरेऽत आः स्यात् । भवामि । भवावः। भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । स्पर्धे ॥७॥४॥११९॥ । स च स्वं च भवथः । स चाहं च पचावः । स च त्वं चाहं च पचामः । विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थने ॥५॥४॥२८॥ विधिरप्राप्त नियोगः। क्रियायां प्रेरणा । अज्ञातज्ञापनमित्येके । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम् । प्रेरणायामेव यस्यां प्रत्याख्याने कामचारस्तदामन्त्रणम् । प्रेरणैव सत्कारपूर्विकाऽधीष्टम् । सम्प्रधारणा सम्प्रश्नः। प्रार्थनं याया । एष्वर्थेषु सप्तमी पञ्चमी च स्यात् । सम्भावनादिषु च । यः सप्तम्याः ॥४।२।१२२॥ अतः परस्य सप्तम्या या इत्यस्यः स्यात् । शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यस्तत्वश्रद्धानात् । भवेताम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy