________________
२६१
क्रियातिपत्तिः स्यत् स्यतां स्यन, स्यस् स्यतं स्थत, स्यं स्याव स्याम, स्थत स्वेतां स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्से स्यावहि
स्यामहि ॥३॥३॥१६॥ इयं क्रियातिपत्तिसंज्ञा। नवाद्यानि शतकसू च परस्मैपदम् ॥३॥३॥१९॥
सर्वासां त्यादिविभक्तीनामाद्यानि नववचनानि शतृकसौ च कृतौ प्रत्ययौ एषां परस्मैपदमितिसंज्ञा।।
पराणि कानानशौ चात्मनेपदम् ॥३॥३॥२०॥ स्पष्टम् ।
त्रीणित्रीण्यन्ययुष्मदस्मदि ॥३३३३१७॥ सर्वासां त्यादिविभक्तीनां त्रीणि त्रीणि वचनानि अन्यदर्थे युष्मदर्थे अस्मदर्थे चाभिधेये यथाक्रमं परिभाष्यन्ते ।
सति ॥५॥२॥१९॥ .... सन् विद्यमानः प्रारब्धापरिसमाप्तः क्रियाप्रवन्धो वर्तमानस्तदर्थाद्धातोर्वतैमाना स्यात् । तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च ॥३३॥२१॥
तदात्मने पदं कृत्यक्तखलाश्च प्रत्ययाः साप्यात्सकर्मकाद्धातोः कर्मणि, अनाम्यादकर्मकादविवक्षितकर्मकाच भावे भवन्ति ।
इङितः कर्तरि ॥३३॥२२॥ इकारेतो कारेतश्च धातोः कर्तर्यात्मनेपदं स्यात् ।
ईगितः ॥३३२९५॥ ईकारेतो गकारेतश्च धातोः फलवति कर्तर्यात्मनेपदं स्यात् ।
शेषात्परस्मै ॥३॥३॥१०॥ पूर्वोक्तादात्मनेपदविधानादन्यः सर्वो धातुः शेषस्तस्मात् परस्मैपदं स्यात् कर्तरि ।