________________
२५८ बोधं प्रापदकब्बरक्षितिपतिश्चक्रीव यत्सन्निधौ, कीर्तिः क्षीरपयोधिमार्जनमधात्सद्वक्रमिन्दुर्यभौ ॥९॥ तच्छिष्यः कनकादिमः सविजयः श्रीवाचकोऽस्यान्तिषत्, शीलादिर्विजयः कविस्तत इमे शिष्यास्त्रयो जज्ञिरे । आधः श्रीकमलश्चसिद्धिविजयश्चारुत्ववाग्वाचको:मीषां शिष्यवरः कृपादिविजयः प्राज्ञः समाज्ञाम्बुधिः ॥ १० ॥ श्रीमेघविजयनानोपाध्यायोऽध्यायतत्परः परमः। चन्द्रचन्द्रप्रभा चक्रे भानूदयबुद्धि वृद्धिकरी ॥ ११ ॥ भहोजिनान्ना भवदीक्षितेन सिद्धान्तयुक्ता वरकौमुदी या। श्रीसिद्धहैमानुगता व्यधायि सैवाश्रिता भानुविभोदयाय॥१२॥ स्फुरद्यावज्योतिर्वलयममलं मेरुमभितो, ..' दधत्याशाज्योतिर्वसनमुदये चार्कशशिनो। ज्वलत्ताराहाराकृतमपि धरेद् द्यौर्बुवमियं,
चिरं स्थयात्तावन्मनसि रसिनां तत्सुमनसा ॥ १३ ॥ खाङ्गे साष्टसहस्रलक्षणधरः क्लुप्ताभिषेकः सुरैः, _सेन्द्रैः साष्टसहस्रमानसहितैः कुम्भश्च वृत्तैः स्तुतः। ग्रन्थेऽप्यष्टसहस्रसम्मिततया सल्लक्षणैर्लक्षिते,
कुर्यात्सोऽभ्युदयं धियां समुदयं वीरस्त्रिलोकीगुरूः ॥१४॥ श्रीहेमचन्द्रसुगुरोविनयस्य सिद्धेः __ शास्त्रार्णवोऽलभत पूर्णदशां रसेन । दीपोत्सवस्य दिवसे कुशलेन योऽसौ,
सौभाग्यमेरुविजयादिभिरीक्ष्यमाणः ॥१५॥ विचार्य दोषमुत्सार्य कार्यः पाणिग्रहोऽनया।
सज्जनेन रसाच्छुद्धलक्षणान्वितया श्रिये ॥ १६ ॥ इति श्रीमन्मेघविजयमहोपाध्यायविरचिता चन्द्रप्रभाख्या
हैमकौमुदी समाप्तिमगादगाधगुणततिः ॥