________________
२५७ स्थादेः पित् लुप्स्यात् । स च रित् । रित्करणं प्रतिषिद्धस्य पुंवद्रावस्यापि रितीतिविधानार्थम् । शुक्लशुक्लं रूपं श्रीचन्द्रप्रभस्याहतः । शुक्लशुक्ल पटः।
वाक्यस्य परिवर्जने ॥७॥४।८८॥ परिशब्दो वर्जने वर्तमाने वा द्विरुच्यते । परि २ सौवीरेभ्यो वृष्टिर्मेघस्य । पक्षे परि सौवीरेभ्यो मेघविजयकरी वृष्टिः।।
प्रियसुखं चाकृच्छ्रे ॥७।४।८७॥ प्रियसुखशब्दो अकृच्छ्रे मङ्गले वर्तमानौ वा द्विरुच्यते तत्र चादौ शब्दरूपस्य स्थादेः लुप्स्यात् । प्रियप्रियेण ददाति । पक्षे प्रियेण ददाति । सुखसुखेनाधीतेऽर्हन्नाम ।
इति श्रीचन्द्रप्रभायां प्रक्रियायां द्विरुक्तिसाधनम् ॥ विजयतां त्रिशलातनयः प्रभुः स्फुरतराष्टसहस्रसुलक्षणः । विनयमूलमिदं वरशासनं, जयति यस्य दधत्परमोदयम् ॥१॥ वीरः क्षीरगभीरनीरधिजलैर्देवाचलस्योचकै
रिन्द्रः क्लुप्तमहाभिषेचनविधिः श्रीवर्द्धमानालयः। नित्यानन्दनसम्पदे भवतु मे सिद्धार्थभूपालभू
र्दैवः श्रीनिशलाङ्गजो गजमदनोत्सर्पसंभुप्रभः ॥२॥ तदीयशिष्योऽभवदिन्द्रभूतिर्विभूतिकर्ता बहुलब्धिशाली। पट्टे प्रभुः पञ्चमवर्णनीयः स पञ्चमः श्रीगणभृत्सुधर्मा ॥३॥ श्रीहीरविजयसूरिस्तदन्वये तपगणे समुदियाय । श्रीमदकबरसाहिः प्रबोधितो येन जनगुरुः ॥४॥ श्रीविजयसेनसूरिस्ततोऽभवद्विजयदेवसूरिरितः। पट्टेऽस्य सूरिभानुर्विजयप्रभुगणपतिश्चाभूत् ॥५॥ तत्पद्योदयशैले मौली रत्नोपमाजितसपत्नाः । श्रीविजयरलनाना सूरिवरा दिनकरा धाम्ना ॥६॥ विजयन्ते ते गुरवः शैलशरर्षीन्दुवत्सरे तेषाम् । आदेशादेशपतेः स्थितिः कृता राजधान्यन्तः ॥ ७॥ चातुर्मास्यामस्या नाम्ना श्री आगरावराख्यायाम् ।
नानायोगैः खचिता चन्द्रप्रभा सुधिया ॥ ८॥ तत्परम्परा चैवम्
श्रीश्वेताम्बरजैनधर्म-पतेः प्राधान्यमुद्भावयन् , श्रीमान् हीरगुरुर्जगद्गुरुरितिख्यातिं दधौ सद्विधौ । चं. प्र. ३३