________________
२५६
सामीप्येsaisयुपरि ॥७४॥७९॥
अधोधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् । वीप्सायाम् ॥७४॥८०॥
युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । तस्यां यच्छन्दरूपं तद्विरुच्यते । वृक्षं २ सिञ्चति । गृहे २ अश्वाः । खिन्नः २ । क्षीणः २ | नवम् २ प्रीतिः ।
लुप् चादावेकस्य स्यादेः ॥ ७|४|८१ ॥
एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्तते य एकशब्दस्तत्सम्बन्धिनः स्यादेः स्यात् । एकैकः । एकैकम् । एकैकस्या: । एक एक एकस्या अन विरामस्याविवक्षितत्वात् पुंवद्भावेऽपि सन्धिकार्य्यं न स्यात् ।
द्वन्द्वं वा ॥ ७|४|८२ ॥
द्वन्द्वमिति वीप्सायां द्विरुक्तद्विशब्दस्यादौ स्यादेः हुए । इकारस्याम्भावः । उत्तरत्रेकारस्यात्वं स्यादेश्वाम्भावो वा निपात्यते । द्वन्द्वं तिष्ठतु । द्वौ द्वौ तिष्ठतः । द्वन्द्वं कृतम् । द्वाभ्यां द्वाभ्यां कृतम् ।
रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे || ७|४|८३ ॥
द्वन्द्वमिति द्विशब्दस्य द्विवचनं शेषं पूर्ववत् रहस्यादिषु गम्यमानेषु निपात्यते । रहस्ये, द्वन्द्वं मन्त्रयते । रहस्यं मन्त्रयते इत्यर्थः । मर्यादोक्ति, आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पौत्रेण तत्पुत्रेण मिथुनेन यातीत्यर्थः । व्युतक्रान्तौ द्वन्द्वं व्युत्क्रान्ताः । द्वैराश्येन भिन्नमित्यर्थः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । द्वे द्वे प्रयुक्तीत्यर्थः । रहस्यादिष्विति किम् ? द्वौ तिष्ठतः । द्वन्द्वः समासः । द्वन्द्वं युग्मम् । अत्र द्वन्द्वं शब्दान्तरम् ।
लोकज्ञातेऽत्यन्तसाहचर्ये ॥७|४|८४ ॥
द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते । द्वन्द्वं रामलक्ष्मणौ । द्वन्द्वमित्यत्र नपुंसकत्वमनुप्रयोगस्य नपुंसकार्थम् ।
आबाधे ||७|४|८५॥
आबाधो मनःपीडा । तद्विषये शब्दरूपं द्विरुच्यते । तत्र चादौ पूर्वपदे स्यादेः लुप्स्यात् । पूः २ । गतः २ । नष्टः २ । न नकारोति दुरुच्चारणादिना पीड्य - मानः प्रयोक्ता एवं प्रयुङ्क्ते । अष्टमीः २ ।
नवा गुणाः सदृशे रित् ॥ ७|४|८६ ॥
गुणशब्दो मुख्यसदृशे गुणवति वर्तमाने वा द्विः स्यात् । आदौ वर्तमानस्य