________________
२५५ अकद्रपाण्डोरुवर्णस्यैये ॥७॥४॥१९॥ लुक् । जम्ब्बा जोम्येयः । कद्रूशब्दे काद्रवेयः । ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्सेतो लुक
॥७॥४॥७॥ मातुरागतं मातृकम् । ऋत इकण् । शावरजम्बुकः । उवर्णादिकण् । दोश्यों तरति दौष्कः । सर्पिः पण्यमस्य सार्पिष्कः । धनुः प्रहरणमस्य धानुष्कः । तकारान्तः, उदश्विता संस्कृतः औदश्वित्कः । शश्वद्भवं शाश्वतिकम् । आकस्मिकम् । नाकारलुक।
असकृत्सम्भ्रमे ॥७॥४॥७२॥ भयादिभिश्चित्तव्याक्षेपात्प्रयोक्तुस्त्वरणं सम्भ्रमः । तस्मिन् द्योले यत्पदं वाक्यं तद्नेकवारं प्रयुज्यते । अहिः २। वुध्यख २। त्रिवारमपि । भृशाभीक्षण्याविच्छेदे द्विः प्राक्तमवादेः ॥४॥७३॥
क्रियायाः साकल्यम् अवयवक्रियाणां कात्यम् । भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः । एषु यत्पदं वाक्यं का तत्र तमवादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते । लुनीहि लुनीहि इत्येवायं लुनाति । भोजम् २ व्रजति । अविच्छेदे, पचति २ । मन्दम् २ नुदति । प्राक्तमवादे, पचति पचतितमाम् ।
नानावधारणे ॥७४।७४॥ नाना भूतानां भेदे नेयत्तापरिच्छेदो नानावधारणम् । तस्मिन् यच्छन्दरूपं तद्विरुच्यते । अस्मात्कार्षापणादिह भवद्भ्यां मापं २ देहि । द्वौ २ देहि । श्रीन २ देहि ।
आधिक्यानुपूव्र्ये ॥७४।७५॥ एतयोर्यच्छब्दरूपं तविरुच्यते । आधिक्यं प्रकर्षः । आनुपूय क्रमानुल्ला नम् । आधिक्ये नमो नमः । अधिकतम इत्यर्थः । आनुपूर्थे, ज्येष्ठं २ अनुप्रवेशय।
पूर्वप्रथमावन्यतोऽतिशये ॥७॥४॥७७॥ प्रकर्षे द्योत्ये द्विः। पूर्वम् २ पुष्यति । प्रथमं २ पच्यते ।
प्रोपोत्सम्पादपूरणे ॥७।४।७८॥ __ एतानि उपसर्गाणि द्विरुच्यन्ते । न चेत्पादः पूर्यत । प्रप्रशान्तकषायामेरपोपल्लववर्जितम् । उदुज्वलं तपो यस्य संसंश्रयत तं जिनम् ॥१॥