________________
२५४
पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः॥७॥४॥३९॥ हमनिणीष्ठेयस्सु । प्रथिमा । प्रथिष्ठः । प्रथीयान् इत्यादयः ।
बहोणीष्ठे भूय् ॥७॥४॥४०॥ भूपयति भूयिष्ठः।
भूलक चेवर्णस्य ॥७॥४॥४१॥ बहुशब्दस्येमनीयसोः परतो भू इत्यादेशः, अनयोरिवर्णस्य लुक । भूमा। भूयान् । भूयांसौ। स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः
॥७॥४॥४२॥ स्थूलादीनां यथायोगमिमनिणिष्ठेयस्सु अन्तस्थादेरवयवस्य लुक, नामिनश्च गुणः स्यात् । स्थवयति स्थविष्ठः । स्थवीयान् । दवयति दविष्ठः । दवीयान् । यविष्ठः । इसीयान् । क्षेपिष्ठः।
त्यन्तस्वरादेः ॥७॥४॥४३॥ तृप्रत्ययस्यान्तखरादेवावयवस्य इमनिणीष्ठेयस्सु परेषु च लुक् स्यात् । कर्तृमन्तमाचष्टे करयति । करिष्ठः । करीयान् । कर्तारमाचष्टे करयति । मातयति । भ्रातयति । इत्यावनकत्वात्तृशब्दस्य न स्यात् । पटिमा । लधिमा।
नैकस्वरस्य ॥७॥४॥४४॥ अन्त्यखरादेलक न इमनिणिष्ठेयस्सु च । मजयति । स्रजिष्ठः । एकखरस्येति किम् ? वसुमन्तमाचष्टे वसयति । वसिष्ठः ।
प्रायोऽव्ययस्य ॥७॥४॥६५॥ अव्ययस्यापदसंज्ञकस्य तद्धितेऽन्त्यस्वरादेः प्रायो लुक् स्यात् । खर्भवः सौः। बहिर्जातो बाह्यः । बाहीकः । पौनःपुन्यम् । परत आगतः पारतः।
अनीनादट्योऽतः ॥७॥४॥६६॥ ईनः अत् अट् वर्जिते तद्धितेऽहोऽकारस्याऽपदस्य लुक्स्यात् । हकारमध्यसत्य लुक । अहां समूह आह्नम् । अह्ना निर्वृत्तमाह्निकम् । इने व्यहीनः । अति समासान्ते, अन्वहम् । अटि, द्वयोरहोः समाहारः यहः ।
विंशतेस्तेर्डिति ॥७॥४॥६७॥ लुक। विंशत्या क्रीतः विंशकः ।