________________
२५३ देवतानामात्वादौ ॥७॥४॥२८॥ वृद्धिः समासे प्रोक्तम् आकारादिकरणे । अग्निश्च विष्णुश्च देवता अस्था. नावैष्णवम् सूक्तम् । ऐन्द्रापौष्णं हविः । अग्निश्चन्द्रश्च तो देवते अस्य आग्नेन्द्रम् । ऐन्द्रावरुणम् । सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ७४४॥३०॥
सारवादयोऽणप्रत्ययान्ताः कृता अय् लोपादयो निपाताः । सरय्वां भवं सारवं जलम् । इक्ष्वाकोरपत्यमैश्वाकः । मित्रयोरपत्यं मैत्रेयः। वान्तमान्तितमान्तितोऽन्तियान्तिषत् ॥७॥४॥३१॥
अन्तमः अन्तितमः अन्तितः अन्तियः अन्तिषद् एते निपाताः । विकल्पात् पक्षे, अन्तिकतमः। अन्तकितः । अन्ति अस्य पक्षे अन्तिक्यः। अन्तिषद् पक्षे अन्तिकस।
विन्मतोर्णीष्ठेयसौ लुप् ॥७॥४॥३२॥ __ स्रग्विणमाचष्टे स्रजयति । अतिशयेनायमेषां स्रग्वी रजिष्ठः । अयमनयोरतिशयेन स्रग्वी स्रजीयान् ।
अल्पयूनोः कन्वा ॥७॥४॥३३॥ कनयति कनिष्ठः । कनीयान् । पक्षे अल्पयति । यवधतीत्यादि ।
प्रशस्यस्य श्रः ॥७॥४॥३४॥ णीष्ठेयासु । यति श्रेष्ठः । श्रेयान् ।
वृद्धस्य च ज्यः ॥७॥४॥३५॥ ज्ययति । ज्येष्ठः।
ज्यायान् ॥७॥४॥३६॥ इयसि निपातः।
बाढान्तिकयोः साधनेदौ ॥४॥३७॥ साधयति साधिष्ठः । साधीयान् । नेदयति नेदिष्ठः । नेदीयान् । प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारुकस्येमनि च प्रास्थास्फावरगरवंहत्रपद्राघवर्षवृन्दम् ॥७॥४॥३८॥
एषामेते आदेशाः स्युः इमनिणीष्ठेयस्सु । प्रियस्य प्रादेशे प्रेमा। प्रापयति प्रेष्ठः प्रेयान् । स्थिरस्य स्था। स्थेमा । स्थापयति स्थेष्ठः ।स्थेमान इत्यादयः।