________________
२५२
पदस्यानिति वा ॥ ७|४|१२॥
पदशब्दान्तस्य श्वादेरिकारवर्ज ञ्णिति तद्धिते वः प्रागौकारो वा स्यात् । शुन इव पदमस्य श्वापदम् । तस्य विकारः शौवापदं श्वापदम् । अनितीति किम् ? श्वापादिकः ।
प्रोष्ठभद्रपदाजाते || ७|४|१३॥
उत्तरपदस्य पाद इत्यसौ वृद्धिः । प्रोष्ठपदासु जातः प्रोष्ठपादः । भद्रपादो
माणवकः ।
अंशादूतोः ॥७|४|१४॥
अंशवाचिनः शब्दात्परस्य उत्तरपदस्थस्य ऋतुवाचिनः प्राग्वत् । पूर्वासु वर्षासु भवः पूर्ववार्षिकः । अपरवार्षिकः ।
सर्वार्द्धाद्राय ||७|४|१५ ॥
प्राग्वत् । सुपञ्चालेषु भवः सौपाञ्चालकः । सर्वमागधकः । अमद्रस्य दिशः ॥ ७|४|१६॥
दिग्वाचिनः परस्य राष्ट्रवाचिनः प्राग्वत् । पूर्वपाञ्चालकः । मद्रवर्जनात् पौर्वमद्रः । अन्यत्रापि । द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः ।
।
॥७४॥२०॥
अर्द्धात्परिमाणस्याऽनतोवात्वादेः
अर्द्धकुडवेन क्रीडमर्द्धकौडविकम् । विकल्पात्पूर्वोत्तरपदादि आर्द्धकोड
विकम् ।
नञः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥७४॥२३॥
'नत्रः क्षेत्रज्ञादेः खरेष्वादेः खरस्य वृद्धिः स्यात्, आदेस्तु नघो वा । अक्षेत्रज्ञस्येदम् आक्षेत्रज्ञम् । अक्षेत्रज्ञम् । अक्षेत्रज्ञस्य भावः कर्म वा अक्षेत्रज्ञयम् । राजादित्वाद्यण् ।
जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७|४|२४ ॥
जङ्गलादेः पूर्वपदस्य ञ्णिति तद्विते तथा नित्यं वृद्धिः स्यात् उत्तरपदस्य पुनर्षा । कुरुजाङ्गलेषु भवः कौरुजङ्गलः । कौरुजाङ्गलः ।
हृद्भगसिन्धोः ॥७४॥२५॥
आदेरुत्तरपदस्य चेतिद्वयमनुवर्तते । हृदायन्तानां पदद्वयेऽपि तथा वृद्धिः स्यात् । सुहृद् इदं सौहार्दम् । सौभाग्यम् । सक्कुप्रधानाः सिन्धवः सक्तसिन्धवस्तेषु साक्तसिन्धवः ।