SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अभिव्याप्तौ भावेन जिन् ॥५।३९०॥ क्रियाखसम्बन्धिनः साकल्येनाभिसम्बन्धोऽभिव्याप्तिस्तस्यां गम्यमानायां भावे धातोरभिन् इत्येतौ स्तः । नित्यवचनात्केवलस्य अप्रत्ययान्तस्य प्रयोगो नास्ति । समन्ताद्रवः सांराविणः । साङ्कौटिनम् । अभिव्याप्तौ भावे भिन्। विसारिणो मत्स्ये ॥७३॥५९॥ खार्थेऽण् । विसरतीति विसारी । गृहादित्वाणिन् । मत्स्यश्चेद्वैसारिणः । पूगादमुख्यकायो द्रिः ॥७३॥६०॥ अर्थकामप्रधानाः संघाः पूगास्तद्वाचिनानः स्वार्थे ज्यः स्यात् । स च द्रिसंज्ञः। न चेत्पूगनाम । सोऽस्य मुख्य इतिसूत्रे विहितकप्रत्ययान्तं स्यात् । लौहध्वज्यः । लौहध्वज्यो । बहुवे द्रिसंज्ञकत्वालकि लोहध्वजाः पूगाः । शैव्यः । शैव्यो। शिवयः। वातादस्त्रियाम् ॥७॥३॥६॥ शरीरायासजीविनः सङ्घा वातास्तद्वाचिनाम्नोऽस्त्रियां वर्तमानात्स्वार्थे ज्यः स्यात् । स च द्रिः । कापोतपाक्यः । कापोतपाक्यौ । कपोतपाकाः । शस्त्रजीविसंघायड वा ॥७३॥६२॥ स च द्रिः । शावर्यः शावयौँ । शवराः। वाहीकेष्वब्राह्मणराजन्येभ्यः ॥७॥३॥३३॥ शस्त्रजीविसङ्घात्स्वार्थे ज्यट् नित्यम् । स च द्रिः। कुण्डीविशाः। शस्त्रजीविसंघः। कौण्डीविश्यः । कौण्डीविश्यौ । कुण्डीविशाः। वृकादेण्यण् ॥७३॥६४॥ स च द्रिः । वाण्यः । वार्केण्यो । वृकाः। यौद्येयादेरञ् ॥७॥३॥६५॥ स च द्रिः। युधाया अपत्यं यौधेयः । यौधेयाः। पोदेरण ॥७॥३॥६६॥ स च द्रिः । पर्शीरपत्यं माणवकाः पर्शवः। द्विखरादणो लुप् । ते शस्त्रजीविसंघः पार्शवः। दामन्यादेरीयः॥७३॥६७॥ खार्थे स च द्रिः। दमनस्यापत्यं बहवः कुमारा दामनयः। ते शस्त्रजीविसंघो दामनीयः । दामनीयौ । दामनयः।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy