________________
अव्ययस्य कोदु च ॥७३॥३१॥ प्रार नित्यायेऽर्थास्तेषु गम्येषु अव्ययस्वरेष्वन्त्यात्स्वरात्पूर्वमा प्रत्ययः स्यात् । तद्योगे ककारान्तमव्ययं तस्य दकारोन्तादेशः स्यात् । कपोपवादः। कुत्सितमल्पमज्ञातं वोच्चैरुच्चकैः । नीचैः । नीचकैः । धिक, धकित् । हिरुक् । हिरकुद् । पृथक, पृथकद् ।
तूष्णीकाम् ॥७३॥३२॥ निपातोऽयम् । कुत्सितमल्पमज्ञातं वा तूष्णी तूष्णीकामास्ते ।
कुत्सिताल्पाज्ञाते ॥७३॥३३॥ यथायोगं कबादयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वोऽश्वकः । गर्दभकः । घृतकम् । तैलकम् । भिन्धकि।
अनुकम्पातयुक्तनीत्योः ॥७॥३॥३४॥ अनुकम्पायां तथाऽनुकम्पायुक्तनीतौ च गम्यायां यथायोगं कबादयः स्युः। अनुकम्प्यः पुत्रः पुत्रकः । वत्सकः । बालकः । शनकैः । स्वपितकि । जल्पतकि। एहकि । अनुकम्पमान एवं युङ्क्ते पुत्रक एहकि । उत्सङ्ग के उपविश ।।
अजाते।नाम्नो बहुस्वरादियेकेलं वा ॥७॥३॥३५॥ __ अनुकम्पार्थे इय इक इल एते प्रत्ययाः स्युर्जातिशब्दं विना । अनुकम्पितो देवदत्तो देवियः। देविकः । देविलः । कबपि । देवदत्तकः । जिनियः । जिनिकः। जिनिलः । जिनदत्तकः । अजातेरिति किम् ? महिषकः। एष जातिशब्दो मनुष्यनामापि।
वोपादेरडाकौ च ॥७३॥३६॥ कनुकम्पित उपेन्द्रदत्त उपडः । उपकः । उपिकः । उपिलः । पक्षे कप् । उपेन्द्रदत्तकः। ऋवर्णोवर्णात्स्वरादेरादेलक् प्रकृत्या च ॥७३॥३७॥
ऋवर्णान्तादुवर्णान्ताच्च परस्यानुकम्पायां विहितस्य खरादेः प्रत्ययस्यादेलुक, तच ऋवर्णान्तोवर्णान्तं प्रकृत्या तिष्ठति । अनुकम्पितो मातृदत्तो मातृयः। मातृका । मातृलः । अनुकम्पितो वायुदत्तो वायुयः । वायुकः ।।
लुक्युत्तरपदस्य कम ॥७॥३३८॥ नृनानो यदुत्तरपदं तस्य ते लुग्वा इति लुकि सति ततः कप्प्रत्ययो न स्यात् अनुकम्पायाम् । कबादीनामपवादः । देवदत्तो देवः । अत्र ।