________________
२४६
साताद्वेदसमाप्तौ ॥७३॥२२॥ वेदं समाप्य लातः स्नातकः । तनुपुत्राणुवृहतीशून्यात्सूत्रकृत्रिमनिपुणाच्छादन
रिक्ते ॥७॥३॥२३॥ एष्वर्थेषु कः । तनोः सूत्रं तनुकम् भङ्गादिमयम् कल्पादिषु कृत्रिमः पुत्रः पुत्रकः । निपुणो निष्णातोऽण्डः अण्डकः ब्रीहिः । वृहती आच्छादनं वृहतिका । शून्य एव शुन्यकः।
भागेऽष्टमाञ्जः ॥७॥३॥२४॥ अष्टम एव अष्टमो भागः । अष्टमो जिनश्चन्द्रप्रभः । नात्र ।
षष्ठात् ॥७॥३॥२५॥ षष्ठ एव षाष्ठो भागः।
माने कश्च ॥७३॥२६॥ षष्ठ एव षष्ठकः । भागे तु षाष्ठः ।
एकादाकिन्चासहाये ॥७३॥२७॥ चकारात्कश्च । एक एव एकाकी । एककः ।
प्रागनित्यात्कप् ॥७३॥२८॥ नित्यशब्दसङ्कीर्तनात्प्राग्येऽर्थास्तेषु कवधिकृतो वेदितव्यः । त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ॥७॥३॥२९॥
कपोऽपवादः । कुत्सितमल्पज्ञानं वा पचति पचतकि । पचतकः पचन्तकि। सर्वादेः, सर्वके । विश्वके । सर्वकस्मै । यकत्पिता। तकत्पिता। त्वकल्पिता। मकत्पिता।
युष्मदस्मदोऽसोभादिस्यादेः ॥७॥३॥३०॥ सकारादिभकारागुकारादिं च विभक्तिं विहाय स्थाद्यन्तयोर्युष्मदस्मदोः खरेष्वन्यात्पूर्वोऽक् स्यात् । युष्मदस्मदोः स्वरेष्वन्त्यात् पूर्वस्यापवादः । त्वयका । मयका । त्वयकि । मयकि । युष्माकम् । अस्माककम् । परमत्वयका । परममयका । युष्मदस्मद इति किम् ? तकया। यकया । सर्वकेण । इमकेन । अमुकेन । इमकैः । अमुकैः। भवकन्तौ । भवकन्तः । असोभादिस्यादिरिति किम् ? युष्मासु। अस्मासु । युवकयो । आवकयोः। युवकाभ्याम् । आवकाभ्याम् । युष्मकाभिः । अस्सकाभिः।