SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ३४५ नाम्नः प्राग्बहुर्वा ॥७३॥१२॥ ईषदसमाप्तेऽर्थे नानो बहुप्रत्ययः स्यात् । स च प्रकृतेः प्राक न परः। ईषदसमाप्तः पटुः । बहुपटुः । बहुभुक्तम् । बहुगुडा द्राक्षा । पक्षे कल्पवाद्याः। न तमवादिः कपोऽच्छिन्नादिभ्यः ॥७३॥१३॥ छिन्नादिवर्जमन्यस्मात्कप्प्रत्ययान्तात्तमबादिर्न स्यात् । अयमेषां प्रकृष्टः पटुकः । अयमनयोः प्रकृष्टः पटुकः । नात्र तमप् । न तरप । प्रकर्षवत्यपि कुत्सितत्वादिविवक्षायां तमवादिः स्यात् । अयमेषां प्रकृष्टः पटुः कुत्सितः पटुतमकः। अयमनयोः पटुतरकः । अनत्यन्ते ॥७॥३॥१४॥ अस्मिन्नर्थे कवन्तान तमबादिः । अनत्यन्तं छिन्नं छिन्नकम् । इदमेषां प्रकृष्टं छिन्नकमित्येव । इदमनयोभिन्न भिन्नकम् । यावादिभ्यः कः ॥७॥३॥१५॥ खार्थे । याव एव यावकः । मणिरेव मणिकः । अस्थाकृतिगणवात् भिन्नतरकम् । बहुतरकम् सिद्ध्यति । कुमारीकीडने यसोः ॥७।३।१६।। स्वार्थे कः । कन्दुरेव कन्दुकः । उत्कण्ठकः । समुद्गकः । दोलिका । ईयवन्तात्, श्रेयानेव श्रेयस्कः ।। लोहितान्मणौ ॥७॥३॥१७॥ खार्थे । लोहित एव लोहितको मणिः । कचिन्न । लोहितो मणिः । रक्तानित्यवर्णयोः ॥७॥३॥१८॥ रक्ते लोहित एव लोहितकः पटः । अनित्यवणे, लोहितकं नेत्ररूपम् कोपेन । कालात् ॥७३॥१९॥ __ कजलादिना रक्तेऽनित्ये वा वर्णेऽर्थे कः स्यात् । काल एव कालकः पटः । अनित्यवर्णे कालकं मुखम् वैलक्ष्येण । . शीतोष्णाहतौ ॥७३॥२०॥ कः । शीत एव शीतकः ऋतुः । एयमुष्णकः । लूनवियातात्पशी ॥७॥३॥२१॥ खार्थे का । लून एव लूनकः । वियातकः पशुः । लज्जाशून्यः ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy