________________
तयोः समूहवच बहुषु ॥७३॥३॥ प्रकृतविषये सप्तम्यर्थे विषये च बहुषु वर्तमानान्नानः समूहवत्प्रत्ययः स्यात् । चकारान्मयट् च । अपूपाः प्रकृता आपूपिकम् । अपूपभयं पर्व । धैनुकम्। धेनुमयम् ।
निन्द्ये पाशप् ॥७॥३॥४॥ निन्द्यो भिषग् भिषक्पाशः ।
प्रकृष्टे तमम् ॥७॥३॥५॥ सर्वे शुक्लाः पटाः, अयमेषां प्रकृष्टः शुक्लः शुक्लतमो गौरयम् । यः सुसन्नं शकटं वहति गोतमोऽयम् । इयं गोतमा । या प्रतिवर्ष विजायते ।
द्वयोर्विभज्ये च तरप् ॥७॥६॥ द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पडतरः।।
कचित् स्वार्थे ॥७॥३७॥ अभिन्नमेव अभिन्नतरकम् । उच्चैरेवोच्चैस्तराम् । किन्त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम् ॥७॥३॥८॥
किंशब्दात्त्यादान्तात् एकारान्ताव्ययेभ्यश्च परयोः तरतमप्प्रत्यययोरन्तस्यामादेशः स्यात् अद्रव्ये । इदमनयोरतिशयेन किंपचति किंतराम्पचति । इदमेषामतिशयेन किं पचति किन्तमां पचति । एवं द्वयोर्विभागे पठतितराम् । बहूनां पठतितमाम् । प्रगेतराम् । प्रगतमाम् । नितराम् । सुतराम् । नतराम् । असत्त्वे किम् ? उच्चैस्तरस्तरुः । पटु उत्तरः। उत्तमः।
गुणाङ्गाद्वेष्ठेयम् ॥७॥३॥९॥ अयमेषामतिशयेन पटुः पटिष्ठः । पटुतमः । अयमनयोरतिशयेन पटुः पटीयान् । पटुतरः । एवं लघिष्ठः । गरिष्ठः । लघीयान् । गरीयान् ।
त्यादेश्व प्रशस्ते रूपप् ॥७३॥१०॥ प्रशस्तं पठति पठतिरूपम् । अत्र क्लीवे एकवचनमेव । क्रियाप्रधानत्वात्। पण्डितरूपः । पकारः पुंवद्भावार्थः।। अतमबादेरीषदसमाप्ते कल्पप्प्रदेश्यप्देशीयर
७॥३॥११॥ ईषदसमासं पचति पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् ।