________________
२४३
प्रज्ञादिभ्योऽण् ॥७।२।१६५॥ स्वार्थे । प्रजानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । प्राज्ञी कन्या । वणिगेव वाणिजः।
श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥७॥२॥१६६॥ . खार्थेऽण् । श्रोत्राच्छरीरे, श्रोत्रमेव औत्रम् शरीरम् । श्रोत्रमेवान्यत् । ओषधिरेवौषधम् ।
कर्मणः सन्दिष्टे ॥७२।१६७॥ स्वार्थेऽण् । कमैव कार्मणम् । सन्दिष्टं कर्म करोतीत्यर्थः ।
वाच इकण् ॥७॥२॥१६८॥ सन्दिष्टेऽर्थे वाचशब्दादिकण् । वागेव वाचिकम् वक्ति । नित्यं विधिद्वयम् ।
विनयादिभ्यः ॥७॥२॥१६९॥ खार्थे इकण वा स्यात् । विनय एव वैनयिकम् । समय एव सामयिकम् ।
उपायाद्धस्वश्च ॥७॥२॥१७॥ खार्थे इकण्वा स्यात् तद्योगे इस्खश्च । उपाय एवोपथिकम् ।
मृदस्तिकः ॥७॥२॥१७१॥ स्वार्थे । मृदेव मृत्तिका।
सस्नौ प्रशस्ते ॥७॥२॥१७२॥ मृदूशब्दात्प्रशस्तेऽर्थे सन एतौ स्तः । प्रशस्ता मृत् मृत्ला । मृद्रूपा इत्यपि।
इति मत्वर्थिकाधिकारः॥
राजीमतीत्याश्रयसाधनानां, राजीमतीत्याजविधौ धनानाम् । शिवानुगं विजहौतनेमिः (१) समुद्रजन्मा वसुधाऽशुधासुः (१) ॥१॥
प्रकृते मयट् ॥७॥३॥१॥ प्राचुर्येण प्राधान्येन च कृतं प्रकृतम् । तस्मिन्नर्थे नानो मयट् स्यात् । अन्नं प्रकृतम् अन्नमयम् । दधिमयम् । टकारोड्यर्थः । यवागूमयी । खार्थिकाः प्रत्यया लिङ्गवचने अतिवर्तन्तेऽपि । यवागूः प्रकृता यवागूमयम् ।
अस्मिन् ॥७॥३॥२॥ सप्तम्यर्थे मयट् । अन्नं प्रकृतमस्मिन्नन्नमयं भोजनम् ।