SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल्लुक् च ॥७।२।१५२॥ संख्यायाः पादन्तानाम्नो दानदण्डे च वीप्सायां विषयेऽकल स्यात्, तद्योगे प्रकृतेरन्तस्य लुक् स्यात्। द्वौ पादौ ददाति द्विपदिकां ददाति । द्वौ पादौ दण्डितः द्विपदिकां दण्डितः । द्वे शते व्यवसृजते द्विशतिका व्यवसृजति । द्विशतिकां दण्डितः । वीप्सायां, द्वौ द्वौ पादौ भुते द्विपदिकां भुते।। तीयाट्टीकण न विद्या चेत् ॥७॥२॥१५३॥ खार्थे । द्वितीयमेव द्वैतीयीकम् । तृतीयम् । तार्तीयीकम् । निष्फले तिलापिञ्जपेजौ ॥७२॥१५४॥ निष्फलस्तिलः तिलपिञ्जः । तिलपेजः। प्रायोऽतोद्वंयसटमात्रट् ॥७२।१५५॥ यावदेव यावद्वयसम् । यावन्मात्रम् । मादिभ्यो यः ॥७२१५९॥ मत एव मर्त्यः । सूर एव सूर्यः । भाग्यम् । नामरूपभागाद्धयः ॥७॥२॥१५८॥ खार्थे । नामैव नामधेयम् । रूपधेयम् । भागधेयम् । नवादीनतनलं च नू चास्य ॥७॥२॥१६०॥ नवमेव नवीनम् । नूतनम् । नूनम् । नव्यम् । चकाराद्यप्रत्ययोऽपि । देवात्तल् ॥७२।१६२॥ खार्थे । देव एव देवता। प्रात्पुराणे नश्च ॥७॥२॥१६॥ स्वार्थे । चकारादीनतत्नाश्च । प्रगतं कालेन पुराणमुच्यते । प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् । होत्राया ईयः ॥७।२।१६३॥ खार्थे । होत्रमेव होत्रीयम् । भेषजादिभ्यष्टयण ॥७॥२॥१६४॥ भेषजमेव भैषज्यम् । अनन्तमेव आनन्त्यम् । ऐतिह्यम् । चातुर्वर्ण्यम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy