SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४० व्यञ्जनस्यान्त ईः ॥७२।१२९॥ दृषदीभवति शिला । दृषद्भवतीत्यपि । व्याप्तौ स्सात् ॥७।२।१३०॥ कर्मकर्तृभ्यां प्रागतत्त्वे व्याप्तिः सर्वात्मना द्रव्येणाभिसम्बन्धः, तस्यां गम्यमानायां कृभ्वस्तियोगे सात्स्यात् । अनग्निमग्निं करोति अग्निसात्करोति । जातेः सम्पदा च ॥७।२।१३१॥ कृभ्वस्तिभिः सम्पदा च योगे करोतेः कर्मणः कृश्वस्तिकर्तुः सम्पदिकर्तुश्च प्रागतत्वे जातेः समानस्य व्याप्ती सात्प्रत्ययः । अस्यां सेनायां सर्वशस्त्रमग्निसास्करोति भवति । अग्निसात्सम्पद्यते। तत्राधीने ॥७॥२।१३२॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यामिति चानुवर्तते । तत्रेतिसप्तम्यन्तात्कृस्वस्तिसम्पद्रिोंगे सात्स्यात् । राजनि अधीनं राजसात् । देये त्राच ॥७२।१३३॥ देवेऽधीनं देयं करोति देवत्रा करोति । सप्तमीद्वितीयान्ताद्देवादिभ्यः ॥७॥२॥१३४॥ स्वार्थे त्रा वा स्यात् । देवेषु वसति । देवत्रा वसति । देवान् करोति । देवत्रा करोति। तीयशम्बबीजात्कृगाकृषौ डाच् ॥७।२।१३५॥ कृगा कृषौ डाच् । क्षेत्रं द्वितीयवारं करोति द्वितीया करोति क्षेत्रम् । शम्याकरोति । बीजाकरोति क्षेत्रम् । सङ्ख्यादेर्गुणात् ॥७।२।१३६॥ द्विगुणं कर्षणं करोति द्विगुणाकरोति । समयाद्यापनायाम् ॥७॥२॥१३७॥ समयाकरोति तन्तुवायः । अद्यश्वस्ते पटं दास्थामीति कालक्षेपं करोतीत्यर्थः । सपत्रनिष्पत्रादतिव्यथने ॥७॥२॥१३८॥ डाच् । सपनाकरोति मृगम् ।
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy