________________
२३८
प्राग्रमणीयः २, प्राकालो रमणीयः प्राग्रमणीयः ३ । प्राच्या दिशः, प्राचो देशात्, प्राचः कालात् आगतः, सर्वत्र प्रागागत इत्येवम् । प्राच्यां दिशि, माचि देशे २ वा वसति प्राग्वसति । लुवञ्चेरिति धालुप् । लुपि सत्यां ज्यादेरित्यादिना डीलुप् ।
ऊर्धाद्विरिष्टातावुपश्चास्य ॥७।२।११४॥ दिगादित्रये प्रथमादित्रयान्तात् रिरिष्टात् एतौ स्तः । धापवादः । उर्द्धशब्दस्य उप इत्यादेशः । उपरि रम्यम् उपरिष्टाद्रम्यम् आगतः वसति इति दिशि देशे चोदाहरणम् । पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चै
षाम् ॥७२।११५॥ एभ्यो दिगाद्यर्थेषु प्रथमाद्यन्तेभ्योऽस् अस्तात् प्राग्विधिनैव स्यात् । परा दिग देशः कालो वा रम्यः परस्तादम्यः । एवमवरस्तादम्यः।
दक्षिणोत्तराच्चातस् ॥७॥११७॥ प्रागुक्तविधिनैवाऽतस् स्यात् । दक्षिणा दिग् देशे वा रम्यो दक्षिणतो रम्यः। उत्तरा दिग्देशः कालो वा रम्य उत्तरतो रम्यः । एवं परतो रम्यम् । अबरतो रम्यम् । एवं चावरशब्दस्य चातूरूप्यम् । दक्षिणशब्दः कालेऽसम्भवति दिग्देशवृत्तिरेव।
अधरापराचात् ॥७२।११८॥ प्रागुक्तविधिनैव आत्प्रत्ययः । चकारादक्षिणोत्तराभ्यां च । अधरा दिग् देशः कालो वा रम्यः अधराद्रम्यः । एवं चाधरशब्दस्य त्रैरूप्यम् ।
वा दक्षिणात्प्रथमासप्तम्या आः ॥७२।११९॥
दक्षिणा रम्यम् । दक्षिणावसति । पक्षेऽतसातौ । दक्षिणतो रम्यम् । दक्षिणाद्रम्यम् । आ प्रत्ययः पञ्चम्यन्तान्न । दक्षिणत आगतः । दक्षिणादागतः।
आही दूरे ॥७।२।१२०॥ दूरे दिशि देशे वा दक्षिणशब्दादा आहि इत्येतौ स्तः । ग्रामाहूरा दक्षिणा दिग् देशो चा रम्यः । एवं दक्षिणाहि रम्यः ।