SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३७ क्रियते । एको राशिर्द्विधा भवति । त्रिधा भवति । द्विः करोति । एवमन्यपि । अनेक एकः क्रियते एकधा क्रियते । वैकाद्व्यमञ् ॥७|२|१०६॥ एकशब्दात्प्रकारे विचाले च वाच्ये ध्यमञ् प्रत्ययः स्यात् । एकेन प्रकारे - णैकध्यम् । एकधा भुङ्क्ते । अनेकमेकं करोति ऐकध्यं करोति । द्वित्रेर्द्धमधौ वा ॥७२॥१०७॥ 5 द्वाभ्यां प्रकाराभ्यां द्वैधम् । वैधम् । द्वेधा । त्रेधा । वा वचनात् द्विधा । त्रिधा वा । एकं राशि द्वौ करोति द्वैधम् । वैधम् । द्विधा । त्रिधा । द्वेधा त्रेधा करोति । तद्वति धण् ॥७।२।१०८॥ द्वित्रिभ्यां तद्वति प्रकारवति विचालवति वाऽभिधेये घण प्रत्ययः स्यात् । द्वौ प्रकारौ भागौ वा एषां द्वैधानि । त्रैधानि । राजद्वैधानि । राजत्रैधानि । द्वैधीभावः । त्रैधीभावः । 1 वारे कृत्वस् ॥७/२/१०९॥ वारः क्रियाया आवृत्तिस्तस्मिन् संख्याया वारवति धात्वर्थे कृत्वस् स्यात् । पञ्च वारा अस्य पञ्चकृत्वो भुङ्क्ते । द्वित्रिचतुरः सुच् ॥७२॥११०॥ द्वौ वारावस्य द्विर्भुङ्गे त्रिर्भुङ्क्ते चतुर्भुङ्गे । एकात्सकृच्चास्य ॥७२।१११॥ एकं वारं भुङ्क्ते सकृद्भुङ्क्ते । पदस्येति सलोपः । बहोर्द्धासन्ने ॥७|२|११२॥ बहवः आसन्ना बारा अस्य बहुधा भुङ्क्ते । दिक्शब्दाद्दिग्देशकालेषु प्रथमापञ्चमी सप्तम्याः ॥७२।११३ ॥ स्वार्थे धा स्यात् । प्राची दिग रमणीया प्राग् रमणीयम् १, प्राग्देशो रमणीयः
SR No.009524
Book TitleChandraprabha Hemkaumudi
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1928
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy